आदित्यपथगः केतुस्तस्याद्भुतमनोरमः । शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा
इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः । आकाशग इवाकाशे गन्धर्वनगरोपमः
नृत्यमान इवाभाति रथचर्यासु मारिष । तेन रत्नवता पार्थः स च गाण्डीवधन्वना
बभूव परमोपेतः सुमेरुरिव भानुना । शिरोभूद्द्रुपदो राजा महत्या सेनया वृतः
कुन्तिभोजश्च चैद्यश्च चक्षुर्भ्यां तौ जनेश्वरौ । दाशार्णकाः प्रभद्राश्च दाशेरकगणैः सह
अनूपकाः किराताश्च ग्रीवायां भरतर्षभ । पटच्चरैश्च पौण्ड्रैश्च राजन्पौरवकैस्तथा
निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः। पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः । पिशाचा दारदाश्चैव पुण्ड्राः कुण्डीविषैः सह
मारुता धेनुकाश्चैव तंगमाः परतंगणाः । बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत
एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः । अग्निवेशास्तुद्दुण्डाश्च मालवा दानभारयः
शबरा उद्भसाश्चैव वत्साश्च सह नाकुलैः । नकुलः सहदेवश्च वामं पक्षं समाश्रिताः
रथानामयुतं पक्षौ शिरस्तु नियुतं तथा। पृष्ठमर्बुदमेवासीत्सहस्रामि च विंशतिः
ग्रीवायां नियुतं चापि सहस्रामि च सप्ततिः । पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः
जग्मुः परिवृता राजंश्चलन्त इव पर्वताः । जघनं पालयामास विराटः सह केकयैः
काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः । एवमेनं महाव्यूहं व्यूह्य भारत पाण्डवाः
सूर्योधयं त इच्छतः स्थिता युद्धाय दंशिताः । तेषामादित्यवर्मानि विमलानि महान्ति च । श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च
क्रौञ्चं दृष्ट्वा ततो व्यूहमभेद्यं तनयस्तव । रक्षमाणं महाघोरं पार्थेनामिततेजसा
आचार्यमुपसंगम्य कृपं शल्यं च पार्थिव । सौमदत्तिं विकर्णं च सोऽश्वत्थामानमेव च
दुःशाकसनादीन्भ्रातॄंश्च सर्वनेव च भारत । अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान्
प्राहेदं वचनं काले हर्षयंस्तनयस्तव । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः
एकैकशः समर्था हि यूयं सर्वे महारथाः । पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तमिदमेतेषां बलं भीमाभिरक्षितम्
संस्थानाः शूरसेनाश्च वेत्रिकाः कुकुरास्तथा । आरोचकास्त्रिगर्ताश्च मद्रका यवनास्तथा
शत्रुंजयेन सहितास्तथा दुःशासनेन च । विकर्णेन च वीरेण तथा नन्दोपनन्दकैः
चित्रसेनेन सहिताः सहिताः पारिभद्रकैः । भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः
ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष । अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधकम्
भीष्मः सैन्येन महता समनन्तात्परिवारितः । ययौ प्रकर्षन्महतीं वाहिनीं सरराडिव
तमन्वायान्महेष्वासो भारद्वाजः प्रतापवान् । कुन्तलैश्च दशार्णैश्च मागधैश्च विशांपते
विदमर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि । सहिताः सर्वसैन्येन भीष्ममहावशोभिनम्
गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः। शकुनिश्च स्वसैन्येन भीष्ममाहवशोभिनम्