स त्वं पश्य महाभाग योगेश्वर महारथम् । भीष्मं यः शमयेत्संख्ये दावाग्निं जलदो यथा
तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः । स्वराज्यमनुसंप्राप्ता मोदिष्यन्ते सबान्धवाः
एवमुक्त्वा ततः पार्थो ध्यान्नास्ते महामनाः । चिरमन्तर्मना भूत्वा शोकोपहतचेतनः
शोकार्तं तमथो ज्ञात्वा दुःखोपहतचेतसम् । अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान्
माशुचो भरतश्रेष्ट न त्वं शोचितुमर्हसि । यस्य ते भ्रातरः शूराः सर्वलोकेषु धन्विनःक
अहं च प्रियकृद्राजन्सात्यकिश्च महायशाः । विराटद्रुपदौ चेमौ धृष्टद्युम्नश्च पार्षतः
तथैव सबलाश्चेमे राजानो राजसत्तम। त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशांपते
एष ते पार्षतो नित्यं हितकामः प्रिये रतः । सैनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः
शिखण्डी च महाबाहो भीष्मस्य निधनं किल। एतच्छ्रुत्वा ततो धर्मो धृष्टद्युम्नं महारथम् । अब्रवीत्समितौ तस्यां वासुदेवस्य श्रृण्वतः
धृष्टद्युम्न निबोधेदं यत्त्वां वक्ष्यामि मारिष। नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम्
भवान्सेनापतिर्मह्यं वासुदेवेन संमितः। कार्तिकेयो यथा नित्यं देवानामभवत्पुरा
तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ। स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान्
अहं च तेऽनुयास्यामि भीमः कृष्णश्च मारिष । माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः
ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ । तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत
अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा। रणे भीष्मं कृपं द्रोणं तथा शल्यं जयद्रथम्
सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव । अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः
समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने । तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम्
व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः । यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत्
तं यथावत्प्रतिव्यूहं परानीकविनाशनम् । अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह
यथोक्तः स नृदेवेन विष्णुर्वज्रभृता यथा। प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम्
आदित्यपथगः केतुस्तस्याद्भुतमनोरमः । शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा
इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः । आकाशग इवाकाशे गन्धर्वनगरोपमः
नृत्यमान इवाभाति रथचर्यासु मारिष । तेन रत्नवता पार्थः स च गाण्डीवधन्वना
बभूव परमोपेतः सुमेरुरिव भानुना । शिरोभूद्द्रुपदो राजा महत्या सेनया वृतः
कुन्तिभोजश्च चैद्यश्च चक्षुर्भ्यां तौ जनेश्वरौ । दाशार्णकाः प्रभद्राश्च दाशेरकगणैः सह
अनूपकाः किराताश्च ग्रीवायां भरतर्षभ । पटच्चरैश्च पौण्ड्रैश्च राजन्पौरवकैस्तथा
निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः। पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः । पिशाचा दारदाश्चैव पुण्ड्राः कुण्डीविषैः सह
मारुता धेनुकाश्चैव तंगमाः परतंगणाः । बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत
एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः । अग्निवेशास्तुद्दुण्डाश्च मालवा दानभारयः