एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते। यदाप्नोति पतिर्भार्यामिह लोके परत्र च
पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै।' आत्माऽऽत्मनैव जनितः पुत्र इत्युच्यते बुधैः
तस्माद्भार्यां पतिः पश्येन्मातृवत्पुत्रमातरम्। `अन्तरात्मैव सर्वस्य पुत्रो नामोच्यते सदा
गती रूपं च चेष्टा च आवर्ता लक्षणानि च। पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च
तेषां शीलगुणाचारास्तत्संपर्काच्छुभाशुभात्।' भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम्
जनिता मोदते प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत्। `पतिव्रतारूपधराः परबीजस्य संग्रहात्
कुलं विनाश्य भर्तॄणां नरकं यान्ति दारुणम्। परेण जनिताः पुत्राः स्वभार्यायां यथेष्टतः
मम पुत्रा इति मतास्ते पुत्रा अपि शत्रवः। द्विषन्ति प्रतिकुर्वन्ति न ते वचनंकारिणः
द्वेष्टि तांश्च पिता चापि स्वबीजे न तथा नृप। न द्वेष्टि पितरं पुत्रो जनितारमथापि वा
न द्वेष्टि जनिता पुत्रं तस्मादात्मा सुतो भवेत्।' दह्यमाना मनोदुःखैर्व्याधिभिस्तुमुलैर्जनः
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव। `विप्रवासकृशा दीना नरा मलिनवाससः
तेऽपि स्वदारांस्तुष्यन्ति दरिद्रा धनलाभवत्।' अप्रियोक्तोपि दाराणां न ब्रूयादप्रियं बुधः
रतिं प्रीतिं च धर्मं च तदायत्तमवेक्ष्य च। `आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजाः
शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन्पितॄन्।' आत्मनो जन्मनः क्षेत्रं पुण्या रामाः सनातनाः
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजा-। `देवानामपि का शक्तिः कर्तुं संभवमात्मनः
पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता। ऋषिभ्यो ह्यृषयः केचिच्चण्डालीष्वपि जज्ञिरे
परिसृत्य यथा सूनुर्धरणीरेणुकुण्ठितः। पितुरालिङ्गतेऽङ्गानि किमस्त्यभ्यधिकं ततः
स त्वं सूनुमनुप्राप्तं साभिलाषं मनस्विनम्। प्रेक्षमाणं कटाक्षेण किमर्थमवमन्यसे
अण्डानि बिभ्रति स्वानि न त्यजन्ति पिपीलिकाः। किं पुनस्त्वं न मन्येथाः सर्वथा पुत्रमीदृशम्
न भरेथाः कथं नु त्वं मयि जातं स्वमात्मजम्। `ममाण्डानीति वर्ध्ते कोकिलाण्डानि वायसाः
किं पुनस्त्वं न मन्येथाः सर्वज्ञः पुत्रमीदृशम्। मलयाच्चन्दनं जातमतिशीतं वदन्ति वै
शिशोरालिङ्गनं तस्माच्चन्दनादधिकं भवेत्।' न वाससां न रामाणां नापां स्पर्शस्तथाविधः
शिशुनालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः। पुत्रस्पर्शात्प्रियतरः स्पर्शो लोके न विद्यते
स्पृशतु त्वां समालिङ्ग्य पुत्रोऽयं प्रियदर्शनः। ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्
मुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः।। त्रिषु वर्षेषु पूर्णेषु प्रजातोऽयमरिन्दमः
अद्यायं मन्नियोगात्तु तवाह्वानं प्रतीक्षते। कुमारो राजशार्दूल तव शोकप्रणाशनः
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः। `राजसूयादिकानन्यान्क्रतूनमितदक्षिणान्
इति गौरन्तरिक्षे मां सूतके ह्यवदत्पुरा। हन्त स्वमङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः
मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः। वेदेष्वपि वदन्तीमं मन्त्रग्रामं द्विजातयः
जातकर्मणि पुत्राणां तवापि विदितं ध्रुवम्। अङ्गादङ्गात्संभवसि हृदयादधिजायसे