मध्यन्दिने यथाऽऽदित्यं तपन्तमिव तेजसा। न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम्
वीक्षांचक्रुः समंतात्ते पाण्डवा भयपीडिताः । त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव
सा तु यौधिष्ठिरी सेना गाङ्गेयशरपीडिता । सिंहेनेव विनिर्भिन्ना शुक्ला गौरिव गोपतेः
हते विप्रुद्रुते सैन्ये निरुत्साहे विमर्दिते। हाहाकारो महानासीत्पाण्डुसैन्येषु भारत
ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः । मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः। जघान पाण्डवरथानादिश्यादिश्य भारत
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः । प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे । अवहारमकुर्वन्त सैन्यानां भरतर्षभ
कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ । भीष्मे च युद्धसंरब्धे हृष्टे दुर्योधने तथा
धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् । भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः
शुचा परमया युक्तश्चिन्तयानः पराजयम्। वार्ष्णेयमब्रवीद्रजान्दृष्ट्वा भीष्मस्य विक्रमम्
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् । शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम्
कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् । लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम्
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् । दृष्ट्वा विप्रद्रुर्त सैन्यं समरे मार्गणाहतम्
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे । वरुणः पाशभृद्वापि कुबेरो वा गदाधरः
न तु भीष्मो महाजेताः शक्यो जेतुं महाबलः । सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लुवे
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव । वनं यात्सामि वार्ष्णेय श्रेयो मे तत्र जीवितुम्
न त्वेतान्पृथिवीपालान्दातुं भीष्माय मृत्यवे । क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित्
यथाऽनलं प्रज्वलितं पतङ्गाः समभिद्रुताः । विनाशायोपगच्छन्ति तथा मे सनिको जनः
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी । भ्रातश्चैव मे वीराः कर्शिताः शरपीडिताः
मत्कृते भ्रातृहार्देन राज्याद्भ्रष्टास्तथा सुखात्। जीवितं बहुमन्येऽहं जीवितं ह्यद्य दुर्लभम्
जीवितस्य च शेषेण तपस्तप्स्यामि दुश्चरम् । न घातयिष्यामि रणे मित्राणीमानि केशव
रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः । घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम्
किं नु कृत्वा हितं मे स्याद्ब्रूहि माधव माचिरम् । मध्यस्थमिव पश्यामि समरे सव्यसाचिनम्
एको भीमः परं शक्त्या युध्यत्येव महाभुजः । केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन्
गदया वीरघातिन्या यथोत्साहं महामनाः । करोत्यसुकरं कर्म रथाश्वनरपङ्क्तिषु
नालमेष क्षयं कर्तुं परसैन्यस्य मारिष । आर्जवेनैव युद्धेन वीर वर्षशतैरपि
एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते । निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना
दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः । धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः
कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः । क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः