ऐन्द्रिमिन्द्रानुजसमं महेन्द्रसदृशं बले । अमोघक्रोधसंकल्पं दृष्ट्वा वः किमभून्मनः
तथैव वेदविच्छूरो ज्वलनार्कसमद्युतिः । इन्द्रास्त्रविदमेयात्मा प्रपतन्समितिंजयः
वज्रसंस्पर्शरूपाणामस्त्राणां च प्रयोजकः । सखङ्गाक्षेपहस्तस्तु घोषं चक्रे महारथः
स सञ्जय महाप्राज्ञो द्रुपदस्यात्मजो बली । धृष्टद्युम्नः किमकरोच्छ्वेते युधि निपातिते
पुरा चैवापराधेन वधेन च चमूपतेः । मन्ये मनः प्रजज्वाल पाण्डवानां महात्मनाम्
तेषां क्रोधं चिन्तयंस्तु अहःसु च निशासु च । न शान्तिमधिगच्छामि दुर्योदनकृतेन हि । कथं चाभून्महायुद्धं सर्वमाचक्ष्व सञ्जय
श्रृणु राजन्स्थिरो भूत्वा तवापनयनो महान् । न च दुर्योधने दोषमिमामाधातुमर्हसि
गतोदके सेतुबन्धो यादृक्तादृङ्भतिस्तव। संदीप्ते भवने यद्वत्कूपस्य खननं तथा
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे । तावकानां परेषां च पुनर्युद्धमवर्तत
श्वेतं तु निहतं दृष्ट्वा विराटस्य चमूपतिम् । कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम्
शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव । स विस्फार्य महच्चापं शक्रचापोपमं बली
अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं युधि । महता रथसङ्घेन समन्तात्परिरक्षितः
सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति। तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम्
तावकानां रथाः सप्त समन्तात्पर्यवारयन् । मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम्
बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः। तथा रुक्मरथो राजन्पुत्रः शल्यस्य मानितः
विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणःक । बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः
नानाधातुविचित्राणि कार्मुकाणि महात्मनाम् । विस्फारितान्यदृश्यन्त तोयदेष्विव विद्युतः
ते तु बाणमयं वर्षं शङ्खमूर्ध्निं न्यपातयन् । निदाघान्तेऽनिलोद्धृता मेघा इव नगे जलम्
ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः । धनूंषि तेषामाच्छिद्य ननर्द पृतनापतिः
ततो भीष्मो महाबाहुर्विनद्य जलदो यथा। तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे
तमुद्यन्तमुदीक्ष्याथ महेष्वासं महाबलम् । संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः
ततोऽर्जुनः संत्वरितः शङ्खस्यासीत्पुरःसरः । भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत
हाहाकारो महानासीद्योधानां युधि युध्यताम् । तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः
अथ शल्यो गदापाणिरवतीर्य महारथात् । शङ्खस्य चतुरो वाहानहनद्भरतर्षभ
स हताश्वाद्रथात्तूर्णं खङ्गमादाय विद्रुतः । बीभत्सोश्च रथं प्राप्य पुनः शान्तिमविन्दत
ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः । यैरन्तरीक्षं भूमिश्च सर्वतः समवस्तृता
पञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् । भीष्मः प्रहरतां श्रेष्ठः पातयामास पत्रिभिः
उत्सृज्य समरे राजन्पाण्डवं सव्यसाचिनम् । अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम्
प्रियं संबन्धिनं राजञ्शरानवकिरन्बहून् । अग्निनेव प्रदग्धानि वनानि शिशिरात्यये
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह। अत्यतिष्ठद्रणे भीष्मो विधूम इव पावकः