अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् । आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान्
आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः । अभिमन्युं च समरे पिता देवव्रतस्तव
आजघ्ने भरतश्रेष्ठस्त्रिभिः सन्नतपर्वभिः । सात्यकिं च शतेनाजौ भरतानां पितामहः
धृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः । तांश्च सर्वान्महेष्वासान्पिता देवव्रतस्तव
वारयित्वा शरैर्घोरैः श्वेतमेवाभिदुद्रुवे। ततः शरं मृत्युसमं भारसाधनमुत्तमम्
विकृष्य बलवान्भीष्मः समाधत्त दुरासदम्। ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम्
ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः । स तस्य कवचं भित्वा हृदयं चामितौजसः
जगाम धरणीं बाणो महाशनिरिव ज्वलन्। अस्तं गच्छन्यथाऽऽदित्यः प्रभाप्रादाय सत्वरः
एवं जीवितमादाय श्वेतदेहाञ्जगाम ह। तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि
प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम्। अशोचन्पाण्डवास्तत्र क्षत्रियाश्च महारथाः
प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः । ततो दुःशासनो राजञ्श्वेतं दृष्ट्वा निपातितम्
वादित्रनिनदैर्घोरैर्नृत्यति स्म समंततः । तस्मिन्हते महेष्वासे भीष्मेणाहवशोभिना
प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः । ततो धनंजयो राजन्वार्ष्णेयश्चापि सर्वशः
अवहारं शनैश्चक्रुर्निहते वाहिनीपतौ। ततोऽवहारः सैन्यानां तव तेषां च भारत
तावकानां परेषां च नर्दतां च मुहुर्मुहुः । पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः । चिन्तयन्तो वधं घोरं द्वैरथेन परंतपाः
( श्वेते सेनापतौ तात संग्रमे निहते परैः। किमकुर्वन्महेष्वासाः पाञ्चालाः पाण्डवैः सह
सेनापतिं समाकर्ण्य श्वेतं युधि निपातितम् । तदर्थं यततां चापि परेषां प्रपलायिनाम्
मनः प्रीणाति मे वाक्यं जयं संजय श्रृण्वतः। प्रत्युपायं चिन्तयन्तः सञ्जनाः प्रस्रवन्ति मे
स हि वीरोऽनुरक्तश्च वृद्धः कुरुपतिस्तदा । कृतं वैरं सदा तेन पितुः पुत्रेण धीमता
तस्योद्वेगभयाच्चापि संश्रितः पाण्डवान्पुरा । सर्वं बलं परित्यज्य दुर्गं संश्रित्य तिष्ठति
पाण्डवानां प्रतापेन दुर्गं देशं निवेश्य च । सपत्नान्सततं बाधन्नार्यवृत्तिमनुष्ठितः
आश्चर्यं वै सदा तेषां पुरा राज्ञां सुदुर्मतिः। ततो युधिष्ठिरे भक्तः कथं सञ्जय सूदितः ।।)
प्रक्षिप्तः संमतः क्षुद्रः पुत्रो मे पुरुषाधमः। न युद्धं रोचयेद्भीष्मो न चाचार्यः कथंचन
न कृपो न च गान्धारी नाहं सञ्जय रोचये । न वासुदेवो वार्ष्णेयो धर्मराजश्च पाण्डवः
न भीमो नार्जुनश्चैव न यमौ पुरुषर्षभौ । वार्यमाणो मया नित्यं गान्धार्या विदुरेण च
जामदग्न्येन रामेण व्यासेन च महात्मना । दुर्योधनो युध्यमानो नित्यमेव हि सञ्जय
कर्णस्य मतमास्थाय सौबलस्य च पापकृत् । दुःशासनस्य च तथा पाण्डवान्नान्वचिन्तयत्
तस्याहं व्यसनं घोरं मन्ये प्राप्तं तु सञ्जय । श्वेतस्य च विनाशेन भीष्मस्य विजयेन च
संक्रुद्धः कृष्णसहितः पार्थः किमकरोद्युधि । अर्जुनाद्धि भयं भूयस्तन्मे तात न शाम्यति
स हि शूरश्च कौन्तेयः क्षिप्रकारी धनंजयः । मन्ये शरैः शरीराणि शत्रूणां प्रमथिष्यति