आकाशादीरितां दिव्यामात्मनो हितसंभवाम् । भीष्मभीष्म महाबाहो शीघ्रं यत्नं कुरुष्व वै
एष ह्यस्य जये कालो निर्दिष्टो विश्वयोनिना । एतच्छ्रुत्वा तु वचनं देवदूतेन भाषितम्
संप्रहृष्टमना भूत्वा वधे तस्य मनो दधे । विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम्
सहितास्त्वभ्यवर्तन्त परीप्सन्तो महारथाः । सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
कैकेयो धृष्टकेतुश्च अभिमन्युश्च वीर्यवान्। एतानापततः सर्वान्द्रोणशल्यकृपैः सह
अवारयदमेयात्मा वारिवेगानिवाचलः । स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु
श्वेतः खङ्गमथाकृष्य भीष्मस्य धनुराच्छिनात्। तदपास्य धनुश्छिन्नं त्वरमाणः पितामहः
देवदूतवचः श्रुत्वा वधे तस्य मनो दधे । ततः प्रचरमाणस्तु पिता देवव्रतस्तव
अन्यत्कार्मुकमादाय त्वरमाणो महारथः। क्षणेन सज्यमकरोच्छक्रचापसमप्रभम्
पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः । वृतं तं मनुजव्याघ्रैर्भीमसेनपुरोगमैःक
अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् । आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान्
आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः । अभिमन्युं च समरे पिता देवव्रतस्तव
आजघ्ने भरतश्रेष्ठस्त्रिभिः सन्नतपर्वभिः । सात्यकिं च शतेनाजौ भरतानां पितामहः
धृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः । तांश्च सर्वान्महेष्वासान्पिता देवव्रतस्तव
वारयित्वा शरैर्घोरैः श्वेतमेवाभिदुद्रुवे। ततः शरं मृत्युसमं भारसाधनमुत्तमम्
विकृष्य बलवान्भीष्मः समाधत्त दुरासदम्। ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम्
ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः । स तस्य कवचं भित्वा हृदयं चामितौजसः
जगाम धरणीं बाणो महाशनिरिव ज्वलन्। अस्तं गच्छन्यथाऽऽदित्यः प्रभाप्रादाय सत्वरः
एवं जीवितमादाय श्वेतदेहाञ्जगाम ह। तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि
प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम्। अशोचन्पाण्डवास्तत्र क्षत्रियाश्च महारथाः
प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः । ततो दुःशासनो राजञ्श्वेतं दृष्ट्वा निपातितम्
वादित्रनिनदैर्घोरैर्नृत्यति स्म समंततः । तस्मिन्हते महेष्वासे भीष्मेणाहवशोभिना
प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः । ततो धनंजयो राजन्वार्ष्णेयश्चापि सर्वशः
अवहारं शनैश्चक्रुर्निहते वाहिनीपतौ। ततोऽवहारः सैन्यानां तव तेषां च भारत
तावकानां परेषां च नर्दतां च मुहुर्मुहुः । पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः । चिन्तयन्तो वधं घोरं द्वैरथेन परंतपाः
( श्वेते सेनापतौ तात संग्रमे निहते परैः। किमकुर्वन्महेष्वासाः पाञ्चालाः पाण्डवैः सह
सेनापतिं समाकर्ण्य श्वेतं युधि निपातितम् । तदर्थं यततां चापि परेषां प्रपलायिनाम्
मनः प्रीणाति मे वाक्यं जयं संजय श्रृण्वतः। प्रत्युपायं चिन्तयन्तः सञ्जनाः प्रस्रवन्ति मे
स हि वीरोऽनुरक्तश्च वृद्धः कुरुपतिस्तदा । कृतं वैरं सदा तेन पितुः पुत्रेण धीमता
तस्योद्वेगभयाच्चापि संश्रितः पाण्डवान्पुरा । सर्वं बलं परित्यज्य दुर्गं संश्रित्य तिष्ठति