यदागमवतः पुंसस्तदपत्यं प्रजायते। तत्तारयति संतत्या पूर्वप्रेतान्पितामहान्
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः। तस्मात्पुत्र इति प्रोक्तः पूर्वमेव स्वयंभुवा
पुत्रेण लोकाञ्जयन्ति पौत्रेणानन्त्यमश्नुते। अथ पौत्रस्य पुत्रेण मोदन्ते प्रपितामहाः
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती। सा भार्या या पतिप्राणा सा भार्या या पतिव्रता
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा। भार्या मूलं त्रिवर्गस्य यः सभार्यः स बन्धुमान्
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः। भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियावृताः
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः। पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः
कान्तारेष्वपि विश्रामो जनस्याध्वनि कस्य वै। यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः
संसरन्तमभिप्रेतं विषमेष्वेकपातिनम्। भार्यैवान्वेति भर्तारं सततं या पतिव्रता
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते। पूर्वप्रेतं तु भर्तारं पश्चात्साप्यनुगच्छति
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते। यदाप्नोति पतिर्भार्यामिह लोके परत्र च
पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै।' आत्माऽऽत्मनैव जनितः पुत्र इत्युच्यते बुधैः
तस्माद्भार्यां पतिः पश्येन्मातृवत्पुत्रमातरम्। `अन्तरात्मैव सर्वस्य पुत्रो नामोच्यते सदा
गती रूपं च चेष्टा च आवर्ता लक्षणानि च। पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च
तेषां शीलगुणाचारास्तत्संपर्काच्छुभाशुभात्।' भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम्
जनिता मोदते प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत्। `पतिव्रतारूपधराः परबीजस्य संग्रहात्
कुलं विनाश्य भर्तॄणां नरकं यान्ति दारुणम्। परेण जनिताः पुत्राः स्वभार्यायां यथेष्टतः
मम पुत्रा इति मतास्ते पुत्रा अपि शत्रवः। द्विषन्ति प्रतिकुर्वन्ति न ते वचनंकारिणः
द्वेष्टि तांश्च पिता चापि स्वबीजे न तथा नृप। न द्वेष्टि पितरं पुत्रो जनितारमथापि वा
न द्वेष्टि जनिता पुत्रं तस्मादात्मा सुतो भवेत्।' दह्यमाना मनोदुःखैर्व्याधिभिस्तुमुलैर्जनः
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव। `विप्रवासकृशा दीना नरा मलिनवाससः
तेऽपि स्वदारांस्तुष्यन्ति दरिद्रा धनलाभवत्।' अप्रियोक्तोपि दाराणां न ब्रूयादप्रियं बुधः
रतिं प्रीतिं च धर्मं च तदायत्तमवेक्ष्य च। `आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजाः
शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन्पितॄन्।' आत्मनो जन्मनः क्षेत्रं पुण्या रामाः सनातनाः
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजा-। `देवानामपि का शक्तिः कर्तुं संभवमात्मनः
पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता। ऋषिभ्यो ह्यृषयः केचिच्चण्डालीष्वपि जज्ञिरे
परिसृत्य यथा सूनुर्धरणीरेणुकुण्ठितः। पितुरालिङ्गतेऽङ्गानि किमस्त्यभ्यधिकं ततः
स त्वं सूनुमनुप्राप्तं साभिलाषं मनस्विनम्। प्रेक्षमाणं कटाक्षेण किमर्थमवमन्यसे
अण्डानि बिभ्रति स्वानि न त्यजन्ति पिपीलिकाः। किं पुनस्त्वं न मन्येथाः सर्वथा पुत्रमीदृशम्
न भरेथाः कथं नु त्वं मयि जातं स्वमात्मजम्। `ममाण्डानीति वर्ध्ते कोकिलाण्डानि वायसाः