महता शरवर्षेण भीष्मस्य धनुराच्छिनत्। ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि
श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः । ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः
विव्याध समरे राजन्सर्वलोकस्य पश्यतः । ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम्
प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा। निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत्
तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् । हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम्
ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव । ध्वजमुन्मतितं दृष्ट्वा तां च सेनां निवारिताम्
श्वेतं प्रति महाराज व्यसृजत्प्तायकान्बहून् । तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः
धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव। उत्सृज्य कार्मुकं राजन्गाङ्गेयः क्रोधमूर्च्छितः
अन्यत्कार्मुकमादाय विपुलं बलवत्तरम्। तत्र संधाय विपुलान्भल्लान्सप्त शिलाशितान्
चतुर्भिश्च जघानाश्वाञ्श्वेतस्य पृतनापतेः । ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथे
शिरश्चिच्छेद भल्लेन संक्रुद्धोऽलघुविक्रमः । हताश्वसूतात्सु रथादवप्लुत्य महाबलः
अमर्षवशमापन्नो व्याकुलः समपद्यत । विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः
ताडयामास निशितैः शरसङ्घैः समंततः । स ताड्यमानः समरे भीष्मचापच्युतैः शरैः
स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम् । ततः शक्तिं रणे श्वेतो जग्राहोग्रं महाभयाम्
कालदण्डोपमां घोरां मृत्योर्जिह्वामेव श्वसन् । अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे
तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव। एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी
ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम्। पाण्डवार्थे पराक्रान्तस्तवानर्थं चिकीर्षुकः
हाहाकारो महानासीत्पुत्राणां ते विशांपते । दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम्
श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसन्निभाम् । अपतत्सहसा राजन्महोल्केव नभस्तलात्
ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम् । असंभ्रान्तस्तदा राजन्पिता देवव्रतस्तव
अष्टभिर्नवभिर्भीष्मः शक्तिं चिच्छेद पत्रिभिः । उत्कृष्टहेमविकृतां निकृतां निशितैः शरैः
उच्चुक्रुशुस्ततः सर्वे तावका भरतर्षभ । शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्च्छितः
कालोपहतचेतास्तु कर्तवक्यं नाभ्यजानत। क्रोधसंमूर्च्छितो राजन्वैराटिः प्रहसन्निव
गदां जग्राह संहृष्टो भीष्मस्य निधनं प्रति। क्रोधेन रक्तनयनो दण्डपाणिरिवान्तकः
भीष्मं समिदुद्राव जलौघ इव पर्वतम्। तस्य वेगमसंवार्यं मत्वा भीष्मः प्रतापवान्
प्रहारविप्रमोक्षार्थं सहसा धरणींगतः। श्वेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम्
रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः । तया भीष्मनिपातिन्या स रथो भस्मसात्कृतः
सध्वजः सह सूतेन साश्वः सयुगबन्धुरः । विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमकाः
अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः। ततोऽन्यं रथमास्थाय धनुर्विस्फार्य दुर्मनाः
शनकैरभ्यायाच्छ्वेतं गाङ्गेयः प्रहसन्निव। एतस्मिन्नन्तरे भीष्मः शुश्राव विपुलां गिरम्