घनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः । संधाय विशिखं चैव शरं लोमप्रवाहिनम्
उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः । केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव
हतं भीष्मममन्यन्त श्वेतस्य वशमागतम्। पाण्डवाश्चापि संहृष्टा दध्मुः शङ्खान्मुदा युताः
भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः । ततो दुर्योधनः क्रोधात्स्वमनीकमनोदयत्
यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समंततः। मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति
भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः। राज्ञस्तु वचनं श्रत्वा त्वरमाणा महारथाः
बलेन चतुरङ्गेण गाङ्गेयप्रन्वपालयन्। बाह्लीकः कृतवर्मा च शलः शल्यश्च भारत
जलसन्धो विकर्णश्च चित्रसेनो विविंशतिः। त्वरमाणास्त्वराकाले परिवार्य समंततः
शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्यपातयन्। तान्क्रुद्धो निशितैर्बाणैस्त्वरमाणो महारथः
अवारयदमेयात्मा दर्शयन्पाणिलाघवम् । स निवार्य तु तान्सर्वान्केसरी कुञ्जराविव
महता शरवर्षेण भीष्मस्य धनुराच्छिनत्। ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि
श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः । ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः
विव्याध समरे राजन्सर्वलोकस्य पश्यतः । ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम्
प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा। निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत्
तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् । हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम्
ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव । ध्वजमुन्मतितं दृष्ट्वा तां च सेनां निवारिताम्
श्वेतं प्रति महाराज व्यसृजत्प्तायकान्बहून् । तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः
धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव। उत्सृज्य कार्मुकं राजन्गाङ्गेयः क्रोधमूर्च्छितः
अन्यत्कार्मुकमादाय विपुलं बलवत्तरम्। तत्र संधाय विपुलान्भल्लान्सप्त शिलाशितान्
चतुर्भिश्च जघानाश्वाञ्श्वेतस्य पृतनापतेः । ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथे
शिरश्चिच्छेद भल्लेन संक्रुद्धोऽलघुविक्रमः । हताश्वसूतात्सु रथादवप्लुत्य महाबलः
अमर्षवशमापन्नो व्याकुलः समपद्यत । विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः
ताडयामास निशितैः शरसङ्घैः समंततः । स ताड्यमानः समरे भीष्मचापच्युतैः शरैः
स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम् । ततः शक्तिं रणे श्वेतो जग्राहोग्रं महाभयाम्
कालदण्डोपमां घोरां मृत्योर्जिह्वामेव श्वसन् । अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे
तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव। एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी
ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम्। पाण्डवार्थे पराक्रान्तस्तवानर्थं चिकीर्षुकः
हाहाकारो महानासीत्पुत्राणां ते विशांपते । दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम्
श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसन्निभाम् । अपतत्सहसा राजन्महोल्केव नभस्तलात्
ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम् । असंभ्रान्तस्तदा राजन्पिता देवव्रतस्तव