भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः। दृष्ट्वा तु पार्थिवैः सर्वैर्दुर्योधनपुरोगमैः
पाण्डवानामनीकानि वध्यमानानि संयुगे। श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम्
नाशयामास वेगेन वायुर्वृक्षानिवौजसा । द्रावयित्वा चमूं राजन्वैराटिः क्रोधमूर्च्छितः
आपतत्सहसा भूयो यत्र भीष्मो व्यवस्थितः । तौ तत्रोपगतौ राजञ्शरदीप्तौ महाबलौ
अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ । अन्योन्यं तु महाराज परस्परवधैषिणौ
निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः । पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी
तरसा वारयामास मत्तो मत्तमिव द्विपम्। श्वेतः शान्तनवं भूयः शरैः सन्नतपर्वभिः
विव्याध प़ञ्चविंशत्या तदद्भुतमिवाभवत्। तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवस्तदा
स विद्धस्तेन बलवान्नाकम्पत यथाऽचलः । वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम्
आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः। संप्रहस्य तत श्वेतः सृक्किणी परिसंलिहन्
घनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः । संधाय विशिखं चैव शरं लोमप्रवाहिनम्
उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः । केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव
हतं भीष्मममन्यन्त श्वेतस्य वशमागतम्। पाण्डवाश्चापि संहृष्टा दध्मुः शङ्खान्मुदा युताः
भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः । ततो दुर्योधनः क्रोधात्स्वमनीकमनोदयत्
यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समंततः। मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति
भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः। राज्ञस्तु वचनं श्रत्वा त्वरमाणा महारथाः
बलेन चतुरङ्गेण गाङ्गेयप्रन्वपालयन्। बाह्लीकः कृतवर्मा च शलः शल्यश्च भारत
जलसन्धो विकर्णश्च चित्रसेनो विविंशतिः। त्वरमाणास्त्वराकाले परिवार्य समंततः
शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्यपातयन्। तान्क्रुद्धो निशितैर्बाणैस्त्वरमाणो महारथः
अवारयदमेयात्मा दर्शयन्पाणिलाघवम् । स निवार्य तु तान्सर्वान्केसरी कुञ्जराविव
महता शरवर्षेण भीष्मस्य धनुराच्छिनत्। ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि
श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः । ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः
विव्याध समरे राजन्सर्वलोकस्य पश्यतः । ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम्
प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा। निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत्
तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् । हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम्
ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव । ध्वजमुन्मतितं दृष्ट्वा तां च सेनां निवारिताम्
श्वेतं प्रति महाराज व्यसृजत्प्तायकान्बहून् । तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः
धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव। उत्सृज्य कार्मुकं राजन्गाङ्गेयः क्रोधमूर्च्छितः
अन्यत्कार्मुकमादाय विपुलं बलवत्तरम्। तत्र संधाय विपुलान्भल्लान्सप्त शिलाशितान्
चतुर्भिश्च जघानाश्वाञ्श्वेतस्य पृतनापतेः । ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथे