अहतः कोपि नैवासीद्भीष्मे नघ्नति शात्रवान् । श्वेतः कुरूणामकरोत्क्षयं तस्मिन्महाहवे
राजपुत्रान्रथोदारानवधीच्छतसङ्घशः। चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ
साङ्गदा बाहवश्चैव धनूंषि च समंततः। रथेषां रथचक्राणि तूणीराणि युगानि च
छत्राणि च महार्हाणि पताकाश्च विशांपते। हयैघाश्च रथौघाश्च नरौघाश्चैव भारत
वारणाः शतशश्चैव हताः श्वेतेन भारत । वयं श्वेतभयाद्भीता विहाय रथसत्तमम्
अपयातास्तथा पश्चाद्विभुं पश्याम धृष्णवः । शरपातमतिक्रम्य कुरवः कुरुनन्दन
भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः । अदीनो दीनसमये भीष्मोऽस्माकं महाहवे
एकस्तस्थौ नरव्याघ्रो गिरिर्मेरुरिवाचलः। आददान इव प्राणान्सविता शिशिरात्यये
गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान्। स मुमोच महेष्वासः शरसङ्घाननेकशः
निघ्नन्नमित्रान्समरे वज्रपाणिरिवासुरान् । ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम्
स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम् । तमेवमुपलक्ष्यैको हृष्टः पुष्टः परंतप
दुर्योधनप्रिये युक्तः पाण्डवान्परिशोचयन्। जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे
पातयामास सैन्यानि पाण्डवानां विशांपते । प्रहरन्तमनीकानि पिता देवव्रतस्तव
दृष्ट्वा सेनापतिं भीष्मस्त्वरितः श्वेतमभ्ययात्। स भीष्मं शरजालेन महता समवाकिरत्
श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत् । तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ
व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः । अस्त्रैरस्त्राणि संवार्य ततस्तौ पुरुषर्षभौ
भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ । एकाह्ना निर्दहेद्भीष्मः पाम्डवानामनीकिनीम्
शरैः परमसंक्रुद्धो यदि श्वेतो न पालयेत्। पितामहं ततो दृष्ट्वा श्वेतो विमुखीकृतम्
प्रहर्षं पाण्डवा जग्मुः पुत्रस्ते विमनाभवत्। ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः
ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे। दुर्मुखः कृतवर्मा च कृपः शल्यो विशांपतिःक
भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः। दृष्ट्वा तु पार्थिवैः सर्वैर्दुर्योधनपुरोगमैः
पाण्डवानामनीकानि वध्यमानानि संयुगे। श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम्
नाशयामास वेगेन वायुर्वृक्षानिवौजसा । द्रावयित्वा चमूं राजन्वैराटिः क्रोधमूर्च्छितः
आपतत्सहसा भूयो यत्र भीष्मो व्यवस्थितः । तौ तत्रोपगतौ राजञ्शरदीप्तौ महाबलौ
अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ । अन्योन्यं तु महाराज परस्परवधैषिणौ
निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः । पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी
तरसा वारयामास मत्तो मत्तमिव द्विपम्। श्वेतः शान्तनवं भूयः शरैः सन्नतपर्वभिः
विव्याध प़ञ्चविंशत्या तदद्भुतमिवाभवत्। तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवस्तदा
स विद्धस्तेन बलवान्नाकम्पत यथाऽचलः । वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम्
आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः। संप्रहस्य तत श्वेतः सृक्किणी परिसंलिहन्