सरथा रथिनश्चापि विमृद्गन्तः समन्ततः । स्यान्दनादपतत्कश्चिन्निहतोऽन्येन सायकैः
हतसारथिरप्युच्चैः पपात काष्ठवद्रथः । युध्यमानस्य संग्रामे व्यूढे रजसि चोत्थिते
धनुःकूजितविज्ञानं तत्रासीत्प्रतियुद्ध्यतः। गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम्
युद्ध्यमानं शरै राजन्सिञ्जिनीध्वजिनीरवात्। अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः
शब्दायमाने संग्रामे पटहे कर्णदारिणि। युध्यमानस्य संग्रामे कुर्वतः पौरुषं स्वकम्
नाश्रौषं नामगोत्राणि कीर्तनं च परस्परम् । भीष्मचापच्युतैर्बाणैरार्तानां युध्यतां मृधे
परस्परेषां वीराणां मनांसि समकम्पयन् । तस्मिन्नत्याकुले युद्धे दारुणे रोमहर्षणे
पिता पुत्रं च समरे नाभिजानाति कश्चन । चक्रे भग्ने युगे च्छिन्ने एकधुर्ये हये हतः
आक्षिप्तः स्यन्दनाद्वीरः समारथिरजिह्मगैः। एवं च समरे सर्वे वीराश्च विरथीकृताः
तेन तेन स्म दृश्यन्ते धावमानाः समंततः । गजो हतः शिरश्छिन्नं मर्म भिन्नं हयो हतः
अहतः कोपि नैवासीद्भीष्मे नघ्नति शात्रवान् । श्वेतः कुरूणामकरोत्क्षयं तस्मिन्महाहवे
राजपुत्रान्रथोदारानवधीच्छतसङ्घशः। चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ
साङ्गदा बाहवश्चैव धनूंषि च समंततः। रथेषां रथचक्राणि तूणीराणि युगानि च
छत्राणि च महार्हाणि पताकाश्च विशांपते। हयैघाश्च रथौघाश्च नरौघाश्चैव भारत
वारणाः शतशश्चैव हताः श्वेतेन भारत । वयं श्वेतभयाद्भीता विहाय रथसत्तमम्
अपयातास्तथा पश्चाद्विभुं पश्याम धृष्णवः । शरपातमतिक्रम्य कुरवः कुरुनन्दन
भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः । अदीनो दीनसमये भीष्मोऽस्माकं महाहवे
एकस्तस्थौ नरव्याघ्रो गिरिर्मेरुरिवाचलः। आददान इव प्राणान्सविता शिशिरात्यये
गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान्। स मुमोच महेष्वासः शरसङ्घाननेकशः
निघ्नन्नमित्रान्समरे वज्रपाणिरिवासुरान् । ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम्
स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम् । तमेवमुपलक्ष्यैको हृष्टः पुष्टः परंतप
दुर्योधनप्रिये युक्तः पाण्डवान्परिशोचयन्। जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे
पातयामास सैन्यानि पाण्डवानां विशांपते । प्रहरन्तमनीकानि पिता देवव्रतस्तव
दृष्ट्वा सेनापतिं भीष्मस्त्वरितः श्वेतमभ्ययात्। स भीष्मं शरजालेन महता समवाकिरत्
श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत् । तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ
व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः । अस्त्रैरस्त्राणि संवार्य ततस्तौ पुरुषर्षभौ
भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ । एकाह्ना निर्दहेद्भीष्मः पाम्डवानामनीकिनीम्
शरैः परमसंक्रुद्धो यदि श्वेतो न पालयेत्। पितामहं ततो दृष्ट्वा श्वेतो विमुखीकृतम्
प्रहर्षं पाण्डवा जग्मुः पुत्रस्ते विमनाभवत्। ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः
ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे। दुर्मुखः कृतवर्मा च कृपः शल्यो विशांपतिःक