सप्त चैव पृषत्कांश्च श्वेतस्योपर्यपातयन्। ततः पुनरमेयात्मा भल्लैः सप्तभिराशुगैः । निचकर्त महाबाहुस्तेषां चापानि धन्विनाम्
ते निकृत्तमहाचापास्त्वरमाणा महारथाः । रथशक्तीः परामृश्य विनेदुर्भैरवान्रवान्
अन्वयुर्भरतश्रेष्ठ सप्त श्वेतरथं प्रति। ततस्ता ज्वलिताः सप्त महेन्द्राशनिनिःस्वनाः
अप्राप्ताः सप्तभिर्भल्लैश्चिच्छेद परमास्त्रवित्। ततः समादाय शरं सर्वकायविदारणम्
प्राहिणोद्भरतश्रेष्ठ श्वेतो रुक्मरथं प्रति। तस्य देहे निपतितो बाणो वज्रातिगो महान्
ततो रुक्मरथो राजन्सायकेन दृढाहतः । निषसाद रथोपस्थे कश्मलं चाविशन्महत्
तं विसंज्ञं विमनसं त्वरमाणस्तु सारथिः । अपोवाह नसंभ्रान्तः सर्वलोकस्य पश्यतः
ततोऽन्यान्षट् समादाय श्वेतो हेमविभूषितान् । तेषां षण्मां महाबाहुर्ध्वजशीर्षण्यपातयत्
हयांश्च तेषां निर्भिद्य सारथींश्च परंतप । शरैश्चैतान्समाकीर्य प्रायाच्छल्यरथं प्रति
ततो हलहलाशब्दस्तव सैन्येषु भारत। दृष्ट्वा सेनापतिं तूर्णं यान्तं शल्यरथं प्रति
ततो भीष्मं पुरस्कृत्य तव पुत्रो महाबलः । वृतस्तु सर्वसैन्येन प्रायाच्छ्वेतरथं प्रति
मृत्योरास्यमनुप्राप्तं मद्रराजममोचयत् । ततो युद्धं समभवत्तुमुलं रोमहर्षणम्
तावकानां परेषां च व्यतिषक्तरथद्विपम् । सौभद्रे भीमसेन च सात्यकौ च महारथे
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते । एतेषु नरसिंहेषु चेदिमत्स्येषु चैव ह । ववर्ष शरवर्षाणि कुरुवृद्धः पितामहः
एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति। कुरवः पाण्डवेयाश्च किमकुर्वत सञ्जय
भीष्मः शान्तनवः किं वा तन्ममाचक्ष्व पृच्छतः
श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः । राज्ञो बलं दर्शयन्तस्तव पुत्रस्य भारत
शिखण्डिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः । अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम्
जिघांसन्तं युधांश्रेष्ठं तदासीत्तुमुलं महत् । तत्तेऽहं संप्रवक्ष्यामि महावैशसमच्युत
तावकानां परेषां च यथा युद्धमवर्तत । तत्राकरोद्रथोपस्थाञ्शून्याञ्शान्तनवो बहून्
तत्राद्भुतं महच्चक्रे शरैरार्च्छद्रथोत्तमान् । समावृणोच्छरैरर्कमर्कतुल्यप्रतापवान्
नुदन्समन्तात्समरे रविरुद्यन्यथा तमः । तेनाजौ प्रेषिता राजञ्शराः शतसहस्रशः
क्षत्रियान्तकराः सङ्ख्ये महावेगा महाबलाः । शिरांसि पातयामासुर्वीराणां शतशो रणे
गजान्कण्टकसन्नाहान्वज्रेणेव शिलोच्चयान् । रथा रथेषु संसक्ता व्यदृश्यन्त विशांपते
एके रथं पर्यवहंस्तुरगाः सतुरंगमम् । युवानं निहतं वीरं लम्बमानं सकार्मुकम्
उदीर्णाश्च हया राजन्वहनक्तस्तत्रतत्र ह। बद्धस्वङ्गनिषङ्गाश्च विध्वस्तशिरसो हताः
शतशः पतिता भूमौ वीरशय्यासु शेरते । परस्पेरण धावन्तः पतिताः पुनरुत्थिताः
उत्थाय च प्रधावन्तो द्वन्द्वयुद्धमवाप्नुवन् । पीडिताः पुनरन्योन्यं लुठन्तो रणमूर्धनि
सचापाः सनिषङ्गाश्च जातरूपपरिष्कृताः । विस्रब्धहतवीराश्च शतशः परिपीडिताः
तेनतेनाभ्यधावन्त विसृजन्तश्च भारत । मत्तो गजः पर्यवर्तद्धयांश्च हतसादिनः