ततो ध्वजमामोघेंषुर्भीष्मस्य नवभिः शरैः । चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः
स राजतो महास्कन्धस्तालो हेमविभूषितः । सौभद्रविशिखैश्छिन्नः पपात भुवि भारत
तं तु सौभद्रविशिखैः पातितं भरतर्षभ । दृष्ट्वा भीमो ननादोच्चैः सौभद्रमभिहर्षयन्
अथ भीष्मो महास्राणि दिव्यानि सुबहूनि च । प्रादुश्चक्रे महारौद्रे रणे तस्मिन्महाबलः
ततः शरसहस्रेण सौभद्रं प्रतितामहः । अवाकिरदमेयात्मा तदद्भुतमिवाभवत्
ततो दश महेष्वासाः पाण्डवानां महारथाः । रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः । भीमश्च केकयाश्चैव सात्यकिश्च विशांपते
तेषां जवेनापततां भीष्मः शान्तनवो रणे । पाञ्चाल्यं त्रिभिरानर्च्छत्सात्यकिं नवभिः शरैः
पूर्णायतविसृष्टेन क्षुरेण निशितेन च। ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा
जाम्बूनदमयः श्रीमान्केसरी स नरोत्तम । पपात भीमसेनस्य भीष्मेण मथितो रथात्
ततो भीमस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे। कृपमेकेन विव्याध कृतवर्माणमष्टभिः
प्रगृहीताग्रहस्तेकन वैराटिरपि दन्तिना । अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः
तस्य वारणराजस्य जवेनापततो रथे । शल्यो निवारयामास वेगमप्रतिमं शरैः
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः । पदा युगमधिष्ठाय जघान चतुरो हयान्
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् । उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम्
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः। स पपात गजस्कन्धात्परमुक्ताङ्कुशतोमरः
असिमादाय शल्योऽपि अवप्लुत्य रथोत्तमात्। तस्य वारणराजस्य चिच्छेदाथ महाकरम्
भिन्नमर्मा शरशतैश्छिन्नहस्तः सवारणः। भीममार्तस्वरं कृत्वा पपात च ममार च
एतदीदृशकं कृत्वा मद्रराजो नराधिप । आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः
उत्तरं वै हतं दृष्ट्वा वैराटिर्भ्रातरं तदा । कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम्
श्वेतः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव । स विस्फार्य महच्चापं शक्रचापोपमं बली
अभ्यधाव?ञ्जिघांसन्वै शल्यं मद्राधिपं बली। महता रथवंशेन समन्तात्परिवारितः
मुञ्चन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति। तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम्
तावकानां रथाः सप्त समन्तात्पर्यवारयन् । मद्रराजमभीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम्
बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः । तथा रुक्मरथो राजञ्शल्यपुत्रः प्रतापवान्
विन्दानुविन्दावावान्त्यौ काम्भोजश्च सुदक्षिणः । बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः
नानावर्णविचित्राणि धनूंषि च महात्मनाम् । विस्फारितानि दृश्यन्ते तोयदेष्विव विद्युतः
ते तु बाणमयं वर्षं श्वेतमूर्धन्यपातयन्। निदाघान्तेऽनिलोद्धूता मेघा इव नगे जलम्
ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः । धनूंषि तेषामाच्छिद्य ममर्द पृतनापतिः
निकृत्तान्येव तानि स्म समदृश्यन्त भारत । ततस्ते तु निमेषार्धात्प्रत्यपद्यन्धनूंषि च