अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः। निष्कूजाः समपद्यन्त दृढसत्वा महाबलाः
अन्ये च विरथाः शूरा रथमन्यस्य संयुगे। प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः । अशोभन्त महाराज सपुष्पा इव किंशुकाः
संबभूवुरनीकेषु बहवो भैरवस्वनाः। वर्तमाने महाभीमे तस्मिन्वीरवरक्षये
निजघान पिता पुत्रं पुत्रश्च पितरं रणे। स्वस्त्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः
सखा सखायं च तथा संबन्धी बान्धवं तथा। एवं युयुधिरे तत्र कुरवः पाण्डवैः सह
वर्तमाने तथा तस्मिन्निर्मर्यादे भयानके । भीष्ममासाद्य पार्थानां वाहिनी समकम्पत
केतुना पञ्चतारेण तालेन भारतर्षभ । राजतेन महाबाहुरुच्छ्रितेन महारथे । बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा
गतपूर्वाह्णभूयिष्ठि तस्मिन्नहनि दारुणे। वर्तमाने तथा रौद्रे महावीरवरक्षये
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः। भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभः । पाण्डवानामनीकानि विजगाहे महारथः
चेदिकाशिकरूषेषु पञ्चालेषु च भारत । भीष्मस्य बहुधा तालश्चलत्केतुरदृश्यत
स शिरांसि रणेऽरीणां रथांश्च सयुगध्वजान् । निचकर्त महावेगैर्भल्लैः सन्नतपर्वभिः
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ । भृशमार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः
अभिमन्युः सुसंक्रुद्धः पिशह्गैस्तुरगोत्तमैः । संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति
जाम्बूनदविचित्रेण कर्णिकारेण केतुना । अभ्यवर्तत भीष्मं च तांश्चैव रथसत्तमान्
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा । भीष्मेण युयुधे वीरस्तस्य चानुरथैः सह
कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः । विद्ध्वा नवभिरानर्च्छच्छिताग्रैः प्रतिपामहम्
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च। ध्वजमेकेन विव्याध जाम्बूनदपरिष्कृतम्
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना । जहार सारथेः कायाच्छिरः सन्नतपर्वणा
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम्। कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः
जघान परमक्रुद्धो नृत्यन्निव महारथः । तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि
लब्धलक्षतया कार्ष्णेः सर्वे भीष्ममुखा रथाः । सत्ववन्तममन्यन्त साक्षादिव धनंजयम्
तस्य लाघवमार्गस्थमलातसदृशप्रभम्। दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत्
तमासाद्य महावेगैर्भीष्मो नव्रभिराशुगैः । विव्याध समरे तूर्णमार्जुनिं परवीरहा
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः । सारथिं च त्रिभिर्बाणैराजघान यतव्रतः
तथैव कृतवर्मा च कृपः शल्यश्च मारिष । विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम्
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः । ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति
ततस्तेषां सहस्राणि संवार्य शरवृष्टिभिः । ननाद बलवान्कार्ष्णिर्भीष्माय विसृज्यञ्शरान्
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत । यतमानस्य समरे भीष्ममर्दयतः शरैः
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् । स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान्