विदर्शयन्तः संपेतुः खङ्गचर्मपरश्वथैः। केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः
विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः। शङ्कुभिर्दारिताः केचित्संभिन्नाश्च परश्वथैः
हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः । रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वथैः
व्याक्रोशन्त नरा राजंस्तत्रतत्र स्म बान्धवान्। पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बन्धुभिः
मातुलान्भागिनेयांश्च परानपि च संयुगे । विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत
बाहुभिश्चापरे छिन्नैः पार्श्वेषु च विदारिताः । क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः
तृषापरिगताः केचिदल्पसत्वा विशांपते। भूमौ निपतिताः सङ्ख्ये मृगयांचक्रिरे जलम्
रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत । व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान्
अपरे क्षत्रिकयाः शूराः कृतवैराः परस्परम् । नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष । तर्जयन्ति च संहृष्टास्तत्रतत्र परस्परम्
आदश्य दशनैश्चापि क्रोधात्स्वरदनच्छदम् । भ्रुकुटीकुटिलैर्वक्रैः प्रेक्षन्ति च परस्परम्
अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः। निष्कूजाः समपद्यन्त दृढसत्वा महाबलाः
अन्ये च विरथाः शूरा रथमन्यस्य संयुगे। प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः । अशोभन्त महाराज सपुष्पा इव किंशुकाः
संबभूवुरनीकेषु बहवो भैरवस्वनाः। वर्तमाने महाभीमे तस्मिन्वीरवरक्षये
निजघान पिता पुत्रं पुत्रश्च पितरं रणे। स्वस्त्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः
सखा सखायं च तथा संबन्धी बान्धवं तथा। एवं युयुधिरे तत्र कुरवः पाण्डवैः सह
वर्तमाने तथा तस्मिन्निर्मर्यादे भयानके । भीष्ममासाद्य पार्थानां वाहिनी समकम्पत
केतुना पञ्चतारेण तालेन भारतर्षभ । राजतेन महाबाहुरुच्छ्रितेन महारथे । बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा
गतपूर्वाह्णभूयिष्ठि तस्मिन्नहनि दारुणे। वर्तमाने तथा रौद्रे महावीरवरक्षये
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः। भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभः । पाण्डवानामनीकानि विजगाहे महारथः
चेदिकाशिकरूषेषु पञ्चालेषु च भारत । भीष्मस्य बहुधा तालश्चलत्केतुरदृश्यत
स शिरांसि रणेऽरीणां रथांश्च सयुगध्वजान् । निचकर्त महावेगैर्भल्लैः सन्नतपर्वभिः
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ । भृशमार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः
अभिमन्युः सुसंक्रुद्धः पिशह्गैस्तुरगोत्तमैः । संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति
जाम्बूनदविचित्रेण कर्णिकारेण केतुना । अभ्यवर्तत भीष्मं च तांश्चैव रथसत्तमान्
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा । भीष्मेण युयुधे वीरस्तस्य चानुरथैः सह
कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः । विद्ध्वा नवभिरानर्च्छच्छिताग्रैः प्रतिपामहम्
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च। ध्वजमेकेन विव्याध जाम्बूनदपरिष्कृतम्
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना । जहार सारथेः कायाच्छिरः सन्नतपर्वणा
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम्। कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः