न मातुलं च स्वस्रीयो न सखायं सखा तथा। आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह
रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः । अभज्यन्त युगैरेव युगानि भरतर्षभ
रथेषाश्च रतेषाभिः कूरा रथकूबरैः। संगतैः सहिताः केचित्परस्परजिघांसवः
न शेकुश्चलितुं केचित्सन्निपत्य रथा रथैः । प्रभिन्नास्तु महाकायाः सन्निपत्य गजा गजैः
बहुधा दारयन्क्रुद्धा विषाणैरितरेतरम्। सतोरणपताकैश्च वारणा वरवारणैः
अभिसृत्य महाराज वेगवद्भिर्महागजैः । दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः
अभिनीताश्च शिक्षाभिस्तोत्राङ्कुशसमाहताः। अप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः
प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः । क्रौञ्चवन्निनदं कृत्वा दुद्रुवुः सर्वतो दिशम्
सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः । ऋषितोमरनाराचैर्निर्विद्धा वरवारणाः
प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः। प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान्
गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः । ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वथैः
गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः । आयसैः परिघैश्चैव निस्तिरंशैर्विमलै शितैः
प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः। व्यदृश्यन्त महाराज परस्परजिघांसवः
राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः। प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम्
अवक्षिप्तावधूतानामसीनां वीरबाहुभिः । संजज्ञे तुमुलः शब्दः पततां परमर्मसु
गदामुसलरुग्णानां भिन्नानां च वरासिभिः । दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः
तत्र तत्र नरौघाणां क्रोशतामितरेतरम् । शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत
हयैरपि हयारोहाश्चामरापीडधारिभिः । हंसैरिव महावेगैरन्योन्यमभिविद्रुताः
तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः । आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः
अश्वैरग्न्यजवैः केचिदाप्लुत्य महतो रथात् । शिरांस्याददिरे वीरा रथिनामश्वसादिनः
बहूनपि हयारोहान्भल्लैः सन्नतपर्वभिः । रथी जघान संप्राप्य बाणगोचरमागतान्
नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः । पादैरेव विमृद्गन्ति मत्ताः कनकभूषणाः
पाठ्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः। प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः
साश्वारोहान्हयान्कांश्चिदुन्मथ्य वरवारणाः । सहसा चिक्षिपुस्तत्र संकुले भैरवे सति
साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्गजाः । रथौघानभिमृद्गन्तः सध्वजानभिचक्रमुः
पुंस्त्वादतिमदत्वाच्च केचित्तत्र महागजाः । साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा
अश्वारोहैश्च समरे हस्तिसादिभिरेव च । प्रतिमानेषु गात्रेषु पार्श्वष्वभि च वारणान् । आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः
नराश्वकायान्निर्भिद्य लौहानि कवचानि च। निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः
महोल्ककाप्रतिमा घोरास्तत्र तत्र विशांपते। द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि
विकोशैर्विमलैः खङ्गैरभिजध्नुः परान्रणे । अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम्