आर्जुनिस्तस्य समरे हयान्हत्वा महारथः । ननाद बलवान्नादं तत्सैन्यं प्रत्यपूरयत्
श्रुतायुस्तु ततः क्रुद्धः फाल्गुनेः समरे हयान्। निजघान गदाग्रेण ततो युद्धमवर्तत
विन्दानिविन्दावावन्त्यौ कुन्तिभोजं महारथम् । ससेनं ससुतं वीरं संसस?ञ्जतुराहवे
तत्राद्भुतमपश्याम तयोर्घोरं पराक्रमम् । अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह
अनुविन्दस्तु गदया कुन्तिभोजमताडयत्। कुन्तिभोजश्च तं तूर्णं शरव्रातैरवाकिरत्
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः । स च तं प्रतिविव्याध तदद्भुतमिवाभवत्
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष । ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् । उत्तरं योधयामास विव्याध निशितैः शरैः
उत्तरश्चापि तं वीरं विव्याध निशितैः शरैः । चेदिराट् समरे राजन्नुलूकं समभिद्रवत्
तथैव शरवर्षेण उलूकं समविद्ध्यत । उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः
तयोर्युद्धं समभवद्धोररूपं विशांते । दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ
एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम् । पदातीनां च समरे तव तेषां च संकुले
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् । तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन
गजो गजेन समरे रथिनं च रथी ययौ । अश्वोऽश्वं समभिप्रायात्पदातिश्च पदातिनम्
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत। शूराणां समरे तत्र समासाद्येतरेतरम्
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः । प्रेक्षन्त तद्रणं घोरं देवासुरसमं भुवि
ततो दन्तिसहस्राणि र्थानां चापि मारिष। अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः
तत्रतत्र प्रदृश्यन्ते रथवारणपत्तयः । सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः
राजञ्शतसहस्राणि तत्रतत्र पदातिनाम् । निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत
न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम् । न भ्राता भ्रातरं तत्र स्वस्त्रीयं न च मातुलः
न मातुलं च स्वस्रीयो न सखायं सखा तथा। आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह
रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः । अभज्यन्त युगैरेव युगानि भरतर्षभ
रथेषाश्च रतेषाभिः कूरा रथकूबरैः। संगतैः सहिताः केचित्परस्परजिघांसवः
न शेकुश्चलितुं केचित्सन्निपत्य रथा रथैः । प्रभिन्नास्तु महाकायाः सन्निपत्य गजा गजैः
बहुधा दारयन्क्रुद्धा विषाणैरितरेतरम्। सतोरणपताकैश्च वारणा वरवारणैः
अभिसृत्य महाराज वेगवद्भिर्महागजैः । दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः
अभिनीताश्च शिक्षाभिस्तोत्राङ्कुशसमाहताः। अप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः
प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः । क्रौञ्चवन्निनदं कृत्वा दुद्रुवुः सर्वतो दिशम्
सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः । ऋषितोमरनाराचैर्निर्विद्धा वरवारणाः
प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः। प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान्