सुशर्माणं नरव्याघ्रश्चेकितानो महारथः । अभ्यद्रवत्सुसंक्रुद्धः पाण्डवार्थे पराक्रमी
शुशर्मा तु महाराज चेकितानं महारथम् । महता शरवर्षेण वारयामास संयुगे
चेकितानोऽपि संरब्धः सुशर्माणां महाहवे । प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम्
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी । अभ्यद्रवत राजेन्द्र मत्तः सिंह इव द्विपम्
यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः । व्यदारयत संग्रामे मघवानिव दानवम्
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे। व्यदारयन्महाप्राज्ञः शरैः सन्नतपर्वभिः
सुदक्षिणं तु राजेन्द्र काम्भोजानां महारथम् । श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे
सुदक्षिणस्तु समरे साहदेविं महारथम् । विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम्
श्रुतकर्मा ततः क्रुद्धः काम्भोजानां महारथम् । शरैर्बहुभिरानर्च्छद्दारयन्निव सर्वशः
इरावानथ संक्रुद्धः श्रुतायुषमरिन्दमम् । प्रत्युद्ययौ रणे यत्तो यत्तरूपं परंतपः
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः । ननाद बलवान्नादं तत्सैन्यं प्रत्यपूरयत्
श्रुतायुस्तु ततः क्रुद्धः फाल्गुनेः समरे हयान्। निजघान गदाग्रेण ततो युद्धमवर्तत
विन्दानिविन्दावावन्त्यौ कुन्तिभोजं महारथम् । ससेनं ससुतं वीरं संसस?ञ्जतुराहवे
तत्राद्भुतमपश्याम तयोर्घोरं पराक्रमम् । अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह
अनुविन्दस्तु गदया कुन्तिभोजमताडयत्। कुन्तिभोजश्च तं तूर्णं शरव्रातैरवाकिरत्
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः । स च तं प्रतिविव्याध तदद्भुतमिवाभवत्
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष । ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् । उत्तरं योधयामास विव्याध निशितैः शरैः
उत्तरश्चापि तं वीरं विव्याध निशितैः शरैः । चेदिराट् समरे राजन्नुलूकं समभिद्रवत्
तथैव शरवर्षेण उलूकं समविद्ध्यत । उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः
तयोर्युद्धं समभवद्धोररूपं विशांते । दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ
एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम् । पदातीनां च समरे तव तेषां च संकुले
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् । तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन
गजो गजेन समरे रथिनं च रथी ययौ । अश्वोऽश्वं समभिप्रायात्पदातिश्च पदातिनम्
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत। शूराणां समरे तत्र समासाद्येतरेतरम्
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः । प्रेक्षन्त तद्रणं घोरं देवासुरसमं भुवि
ततो दन्तिसहस्राणि र्थानां चापि मारिष। अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः
तत्रतत्र प्रदृश्यन्ते रथवारणपत्तयः । सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः
राजञ्शतसहस्राणि तत्रतत्र पदातिनाम् । निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत
न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम् । न भ्राता भ्रातरं तत्र स्वस्त्रीयं न च मातुलः