ततो मद्रेश्वरं राजा शरैः सन्नतपर्वभिः । छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत। तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम्
त्रिधा चिच्छेद समरे पाञ्चाल्यस्य तु कार्मुकम् । शरं चैव महाघोरं कालदण्डमिवापरम्
प्रेषयामास समरे सोऽस्य काये न्यमञ्जत। अथान्यद्धनुरादाय सायकांश्च चतुर्दश
द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे । तावन्योन्यं सुसंक्रुद्धौ चक्रतुः शुभृशं रणम्
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि । प्रत्युद्ययौ महाराज तिष्ठतिष्ठेति चाब्रवीत्
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् । समदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत्
तयोस्तदभवद्युद्धं घोररूपं विशांपते । दृप्तयोः समरे पूर्वं वृत्रवासवयोरिव
बाह्लीकं तु रणे क्रुद्ध क्रुद्धरूपो विशांपते। अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः
बाह्लीकस्तु रणे राजन्धृष्टकेतुममर्षणः । शरैर्बहुभिरानर्च्छत्सिंहनादमथानदत्
चेदिराजस्तु संक्रुद्धो बाह्लीकं नवभिः शरैः । विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम्
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च पुनः पुनः । समीयतुः सुसंक्रुद्धावङ्गारवबुधाविव
राक्षसं रौद्रकर्माणं क्रूरकर्मा घटोत्कचः । अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे
घटोत्कचस्ततः क्रुद्धो राक्षसं तं महाबलम् । नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत
अलम्बुसस्तु समरे भैमसेनिं महाबलम् । बहुधा दारयामास शरैः सन्नतपर्वभिः
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ। यथा देवासुरे युद्धे बलशक्रौ महाबलौ
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली । अश्वत्थामा ततः क्रुद्दः शिखण्डिनमुपस्थितम्
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा ह्यकम्पयत् । शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत्
सायकेन सुपीतेन तीक्ष्णेन निशितेन च। तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे
भगदत्तं रणे शूरं विराटो वाहिनीपतिः। अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत
विराटो भगदत्तं तु शरवर्षण भारत। अभ्यवर्षत्सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम्
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् । छादयामास समरे मेघः सूर्यमिवोदितम्
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ । तं कृपः शरवर्षेण च्छादयामास भारत
गौतमं कैकयः क्रुद्धः शरवृष्ट्याऽभ्यपूरयत् । तावन्योन्यं हयान्हत्वा धनुश्छित्वा च भारत
विरथावसियुद्धाय समीयतुरमर्षणौ । तयोस्तदभवद्युद्धं घोररूपं सुदारुणम्
द्रुपदस्तु ततो राजन्सैन्धवं वै जयद्रथम् । अभ्युद्ययौ हृष्टरूपो हृष्टरूपं परंतपः
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः । ताजयामास समरे स च तं प्रत्यबिध्यत
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् । ईक्षणप्रीतिजननं शुक्राङ्गरकयोरिव
विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् । अभ्ययाञ्जवनैरश्वैस्ततो युद्धमवर्तत
विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः । सुतसोमो विकर्णं च तदद्भुतमिवाभवत्