अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे। तौ वीक्ष्य तु महात्मानौ कृतिनौ चित्रयोधिनौ
विस्मयः सर्वभूतानां समपद्यत भारत। दुःशासनस्तु नकुलं प्रत्युद्याय महाबलम्
अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः । तस्य माद्रीसुतः केतुं सशरं च शरासनम्
चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत । अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे । तुरङ्गांश्चिच्छिदे बाणैर्ध्वजं चैवाभ्यपातयत्
दुर्मुखः सहदेवं च प्रत्युद्याय महाबलम् । विव्याध शरवर्षेण यतमानं महाहवे
सहदेवस्ततो वीरो दुर्मुखस्य महारणे। शरेण भृतशीक्ष्णेन पातयामास सारथिम्
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ । त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ
युधिष्टिरः स्वयं राजा मद्रराजानमभ्ययात्। तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः । अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम्
ततो मद्रेश्वरं राजा शरैः सन्नतपर्वभिः । छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत। तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम्
त्रिधा चिच्छेद समरे पाञ्चाल्यस्य तु कार्मुकम् । शरं चैव महाघोरं कालदण्डमिवापरम्
प्रेषयामास समरे सोऽस्य काये न्यमञ्जत। अथान्यद्धनुरादाय सायकांश्च चतुर्दश
द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे । तावन्योन्यं सुसंक्रुद्धौ चक्रतुः शुभृशं रणम्
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि । प्रत्युद्ययौ महाराज तिष्ठतिष्ठेति चाब्रवीत्
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् । समदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत्
तयोस्तदभवद्युद्धं घोररूपं विशांपते । दृप्तयोः समरे पूर्वं वृत्रवासवयोरिव
बाह्लीकं तु रणे क्रुद्ध क्रुद्धरूपो विशांपते। अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः
बाह्लीकस्तु रणे राजन्धृष्टकेतुममर्षणः । शरैर्बहुभिरानर्च्छत्सिंहनादमथानदत्
चेदिराजस्तु संक्रुद्धो बाह्लीकं नवभिः शरैः । विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम्
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च पुनः पुनः । समीयतुः सुसंक्रुद्धावङ्गारवबुधाविव
राक्षसं रौद्रकर्माणं क्रूरकर्मा घटोत्कचः । अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे
घटोत्कचस्ततः क्रुद्धो राक्षसं तं महाबलम् । नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत
अलम्बुसस्तु समरे भैमसेनिं महाबलम् । बहुधा दारयामास शरैः सन्नतपर्वभिः
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ। यथा देवासुरे युद्धे बलशक्रौ महाबलौ
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली । अश्वत्थामा ततः क्रुद्दः शिखण्डिनमुपस्थितम्
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा ह्यकम्पयत् । शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत्
सायकेन सुपीतेन तीक्ष्णेन निशितेन च। तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे
भगदत्तं रणे शूरं विराटो वाहिनीपतिः। अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत