तस्मिन्प्रथमसंग्रामे भीमज्यातलनिःस्वने। तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ । निमित्तवेधिनां चैव शरानुत्सृजतां भृशम्
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा। विनिश्चेरुः शरा दीप्ताज्योतींषीव नभस्तलात्
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत। ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम्
ततस्ते जातसंरम्भाः परस्परकृतागसः । अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः
कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले । शुशुभाते रणेऽतीव पटे चित्रार्पिते इव
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः । सहसैन्याः समापेतुः पुत्रस्य तव शासनात्
युधिष्ठिरेण चदिष्टाः पार्थिवास्ते सहस्रशः । विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम्
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः । अन्तर्धीयत चादित्यः सैन्येन रजसा वृतः
प्रयुद्धानां प्रभग्नानां पुनरावर्तिनामपि। नात्र स्वेषां परेषां वा विशेषः समदृश्यत
तस्मिस्तु तुमुले युद्धे वर्तमाने महाभये। अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशांपते। प्रावर्तत महाघोरं राज्ञां देहावकर्तनम्
कुरूणां सृञ्जयानां च जिगीषूणां परस्परम् । सिंहानामिव संह्रादो दिवमुर्वी च नादयन्
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह । जझिरे सिंहनादाश्च शूराणां प्रतिगर्जताम्
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ। पत्तीनां पादशब्दश्च वाजिनां च महास्वनः
तोत्राङ्कुशनिपातश्च आयुधानां च निःस्वनः। घण्टाशब्दश्च नागानामन्योन्यमभिधावताम्
तस्मिन्समुदिते शब्दे तुगुले रोमहर्षणे । बभूव रथनिर्घोषः पर्जन्यनिनदोपमःक
ते मनः क्रूरमाधाय समभित्यक्तजीविताः । पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः
अथ शान्तनवो राजन्नभ्यधावद्धनञ्जयम् । प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् । अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ। गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली
तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि। सात्यकिस्तु महेष्वासः कृतवर्माणमभ्यात्
तयोः समभयवद्युद्धं तुमुलं रोमहर्षणम् । सात्यकिः कृतवर्माणं कृतवार्मा च सात्यकिम्
आनर्च्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम्। तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ
वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ । अभिमन्युर्महेष्वासं बृहद्बलमयोधयत्
ततः कोसलराजाऽसावभिमन्योर्विशांपते । ध्वजं चिच्छेद समरे सारथिं च व्यपातयत्
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ। बृहद्बलं महाराज विव्याध नवभिः शरैः
अथापराभ्यां भल्लाभ्यां शिताभ्यामरिमर्दनः । ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम्
अन्योन्यं च शरैः क्रुद्धौ ततक्षाते परस्परम् । मानिनं समरे दृप्तं कृतवैरं महारथम्
भीमसेनस्तव सुतं दुर्योधनमयोधयत् । तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ