शकुन्तला नतशिराः परं हर्षमवाप्य च।' पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला
अभिवादय राजानं पितरं ते दृढव्रतम्। एवमुक्त्वा सुतं तत्र लज्जानतमुखी स्थिता
स्तम्भमालिङ्ग्य राजानं प्रसीदस्वेत्युवाच सा। शाकुन्तलोपि राजानमभिवाद्य कृताञ्जलिः
हर्षेणोत्फुल्लनयनो राजानं चान्ववैक्षत। दुष्यन्तो धर्मबुद्ध्या तु चिन्तयन्नेव सोब्रवीत्
किमागमनकार्यं ते ब्रूहि त्वं वरवर्णिनि। करिष्यामि न संदेहः सपुत्राया विशेषतः
प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम। एष पुत्रो हि ते राजन्मय्युत्पन्नः परंतप
तस्मात्पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम्। यथोक्तमाश्रमे तस्मिन्वर्तस्व पुरुषोत्तम
मया समागमे पूर्वं कृतः स समयस्त्वया। तत्त्वं स्मर महाबाहो कण्वाश्रमपदं प्रति
तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत। शकुन्तला सपुत्रा च मनस्यन्तरधीयत
स धारयन्मनस्येनां सपुत्रां सस्मितां तदा। तदोपगृह्य मनसा चिरं सुखमवाप सः
सोऽथ श्रुत्वापि तद्वाक्यं तस्या राजा स्मरन्नपि। अब्रवीन्न स्मरामीति त्वया भद्रे समागमम्
मैथुनं च वृथा नाहं गच्छेयमिति मे मतिः। नाभिजानामि कल्याणि त्वया सह समागमम्
धर्मार्थकामसंबन्धं न स्मरामि त्वया सह। गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा। कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत
आकारं गूहमाना च मन्युना च समीरितम्। तपसा संभृतं तेजो धारयामास वै तदा
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता। भर्तारमभिसंप्रेक्ष्य यथान्यायं वचोऽब्रवीत्
जानन्नपि महाराज कस्मादेवं प्रभाषसे। न जानामीति निःशङ्कं यथान्यः प्राकृतस्तथा
तस्य ते हृदयं वेद सत्यस्यैवानृतस्य च। साक्षिणं बत कल्याणमात्मानमवमन्यसे
योऽन्यथा सन्तमात्मानन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चोरेणात्मापहारिणा
एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम्। यो वेदिता कर्मणः पापकस्य तस्यान्तिके त्वं वृजिनं करोषि
धर्म एव हि साधूनां सर्वेषां हितकारणम्। नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत्
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति। विदन्ति चैनं देवाश्च यश्चैवान्तरपूरुषः
आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च। अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम्। हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति
न तुष्यति च यस्यैष पुरुषस्य दुरात्मनः। तं यमः पापकर्माणं निर्भर्त्सयति दुष्कृतम्
योऽवमत्यात्मनात्मानमन्यथा प्रतिपद्यते। न तस्य देवाः श्रेयांसो यस्यात्मापि न कारणम्
स्वयं प्राप्तेति मामेवं मावमंस्था पतिव्रताम्। अर्चार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम्
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि। नखल्वहमिदं शून्ये रौमि किं न शृणोषि मे
यदि मे याचमानाया वचनं न करिष्यसि। दुष्यन्त शतधा त्वद्य मूर्धा ते विफलिष्यति
जायां पतिः संप्रविश्य यदस्यां जायते पुनः। जायायास्तद्धि जायात्वं पौराणाः कवयो विदुः