हयानां हेषमाणानामनीकेषु सहस्रशः । सर्वानभ्यभवच्चब्दान्भीमस्य नदतः स्वनः
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः । जीमूतस्येव नदतः शक्राशनिसमस्वनम्
वाहनानि च सर्वाणि शकृन्मूत्रं प्रमुस्रुवुः । शब्देन तस्य वीरस्य सिंहस्येवेतरेक मृगाः
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन्। विभीषयंस्तव सुतान्भीमसेनः समभ्ययात्
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् । छादयन्तः शरव्रातैर्मेघा इव दिवाकरम्
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः । दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृपः
विविंशतिश्चित्रसेनो विकर्णश्च महारथः । पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान्
महाचापानि धुन्वन्तो मेघा इव सविद्युतः । आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान्
अथ ते द्रौपदीपुत्राः सौभद्रश्च महारथः । नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः । वज्रैरिव महावेगैः शिखराणि धराभृताम्
तस्मिन्प्रथमसंग्रामे भीमज्यातलनिःस्वने। तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ । निमित्तवेधिनां चैव शरानुत्सृजतां भृशम्
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा। विनिश्चेरुः शरा दीप्ताज्योतींषीव नभस्तलात्
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत। ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम्
ततस्ते जातसंरम्भाः परस्परकृतागसः । अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः
कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले । शुशुभाते रणेऽतीव पटे चित्रार्पिते इव
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः । सहसैन्याः समापेतुः पुत्रस्य तव शासनात्
युधिष्ठिरेण चदिष्टाः पार्थिवास्ते सहस्रशः । विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम्
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः । अन्तर्धीयत चादित्यः सैन्येन रजसा वृतः
प्रयुद्धानां प्रभग्नानां पुनरावर्तिनामपि। नात्र स्वेषां परेषां वा विशेषः समदृश्यत
तस्मिस्तु तुमुले युद्धे वर्तमाने महाभये। अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशांपते। प्रावर्तत महाघोरं राज्ञां देहावकर्तनम्
कुरूणां सृञ्जयानां च जिगीषूणां परस्परम् । सिंहानामिव संह्रादो दिवमुर्वी च नादयन्
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह । जझिरे सिंहनादाश्च शूराणां प्रतिगर्जताम्
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ। पत्तीनां पादशब्दश्च वाजिनां च महास्वनः
तोत्राङ्कुशनिपातश्च आयुधानां च निःस्वनः। घण्टाशब्दश्च नागानामन्योन्यमभिधावताम्
तस्मिन्समुदिते शब्दे तुगुले रोमहर्षणे । बभूव रथनिर्घोषः पर्जन्यनिनदोपमःक
ते मनः क्रूरमाधाय समभित्यक्तजीविताः । पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः
अथ शान्तनवो राजन्नभ्यधावद्धनञ्जयम् । प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् । अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि