वासुदेवस्तु राधेयमाहवेऽभिजगाम वै। तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः
श्रुतं मे कर्ण भीष्मस्य द्वोषात्किल न योत्स्यसे। अस्मान्वरय राधेय यावद्भीष्मो न हन्यते
हते तु भीष्मे राधेय पुनरेष्यसि संयुगम् । धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम्
न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव । त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम्
तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत । युधिष्ठिरपुरोगैश्च पाण्डवैः सह संगतः
अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः । योऽस्मान्वृणोति तमहं वरये साह्यकारणात्
अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् । प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम्
अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान् । युष्मदर्थं महाराज यदि मां वृणुषेऽनघ
एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान्। युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः
वृणोमि त्वां महाबाहो युध्यस्व मम कारणात्। त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते
भजस्वास्मान्राजपुत्र भजमानान्महाद्युते । न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः
ततो युयुत्सुः कौरव्यान्परित्यज्य सुतांस्तव। जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिं
ततो युधिष्ठिरो राजा संप्रहृष्टःक सहानुजः । जग्राह कवचं भूयो दीप्तिमत्कनकोञ्ज्वलम्
प्रत्यपद्यन्त ते सर्वे स्वरथान्पुरुषर्षभाः । ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः
अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् । सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः
रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः । धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे तदा
गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान्। दृष्ट्वा महीक्षितस्तत्र पूजयांचक्रिरे भृशम्
सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् । दयां च ज्ञातिषु परां कथयांचक्रिरे नृपाः
साधुसाध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः। वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षणाः
म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तथा । वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः
ततो जघ्नुर्महाभेरीः शतशश्च सहस्रशः । शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च। के पूर्वं प्राहरंस्तत्र कुरवःक पाण्डवा नु किम्
भ्रातृभिः सहितो राजन्पुत्रो दुःशासनस्तव। भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः । भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः । भेरीमृदङ्गमुरजा हयकुञ्जरनिःस्वनाः
उभयोःक सेनयोर्ह्यासंस्ततस्तेऽस्मान्समाद्रवन्। वयं तान्प्रतिर्दन्तस्तदाऽऽसीत्तुमुलं महत्
महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः। चकम्पिरे शङ्खमृदङ्गनिःस्वनैः प्रकम्पितानीव वनानि वायुना
नरेन्द्र नागाश्वरताकुलाना- मभ्यागतानामशिवे मुहूर्ते। बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम्
तस्मिन्समुत्थिते शब्दे तुमुले रोमहर्षणे। भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम्। सिंहनादं च सैन्यानां भीससेनरवोऽभ्यभूत्