ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव । अहं त्वामभिजानामि रणे शत्रून्विजेष्यसि
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः। युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते
पृच्छामि त्वां द्विजश्रेष्ठ श्रृणु यन्मेऽभिकाङ्क्षितम्। कथं जयेयं संग्रामे भवन्तमपराजितम्
न तेऽस्ति विजयस्तावद्यावद्युद्ध्याम्यहं रणे। ममाशु निधने राजन्यतस्व सह सदरैः
हन्त तस्मान्महाबाहो वधोपायं वदात्मनः। आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते
न शत्रुं तात पश्यामि यो मां हन्याद्रथे स्थितम्। युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम्
ऋते प्रायगतं रजन्न्यस्तशस्त्रमचेतनम् । हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते
शस्त्रं चाहं रणे जह्यां श्रुत्वा तु महदप्रियम्। श्रद्धेपवाक्यात्पुरुषादेतत्सत्यं ब्रवीति ते
एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः। अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति
सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् । उवाच दुर्धर्षतमं वाक्यं वाक्यविदां वरः
अनुमानये त्वां योत्स्येऽहं गुरो विगतकल्मषः । जयेयं च रिपून्सर्वाननुज्ञातस्त्वयाऽनघ
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः। शपेयं त्वां महाराज परीभावाय सर्वशः
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः
तेषामर्थे महाराज योद्धव्यमिति मे मतिः । अतस्त्वां क्लीबवद्ब्रूयांयुद्धादन्यत्किमिच्छसि
हन्त पृच्छामि ते तस्मादाचार्य श्रृणु मे वचः। इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः
तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम्। अवध्योऽहं महीपाल यद्ध्यस्व जयमाप्नुहि
प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप । आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते
एतच्छ्रुत्वा महाराज गौतमस्य विशांपते। अनुमान्य कृपं राजा प्रययौ येन मद्रराट्
स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् । उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः
अनुमानये त्वां दुर्धर्ष योत्स्ये विगतकल्मषः । जयेयं नु परान्राजन्ननुज्ञातस्त्वया रिपून्
यदि मां नाधिगच्छेथा युद्धाय कृतनिश्चयः । शपेयं त्वां महाराज परीभावाय वै रणे
तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते । अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि
ब्रूहि चैष परं वीर केनार्थः किं ददामि ते। एवं गते महाराज युद्धादन्यत्किमिच्छसि
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्। इति सत्यं महाराज बद्धोस्म्यर्थेन कौरवैः
करिष्यामि हि ते कामं भागिनेय यथेप्सितम्। ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि
मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम्। कामं युद्ध्य परस्यार्थे वरमेतं वृणोम्यहम्
किमत्र ब्रूहि साह्यं ते करोमि नृपसत्तम। कामं योत्स्ये परस्यार्थे बद्धोऽस्म्यर्थेन कौरवैः
स एव मे वरः शल्य उद्योगे यस्त्वया कृतः। सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया
संपत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितम् । गच्छ युध्यस्व विस्रब्धः प्रतिजाने वचस्तव
अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् । निर्जगाम महासैन्याद्भ्रतृभिः परिवारितः