ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन। शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च
प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति। पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह
स द्रोणमभिवाद्याथ कृत्वं चाभिप्रदक्षिणम् । उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः
आमन्त्रये त्वां भगवन्योत्स्ये विगितकल्मषः । कथं जये रिपून्सर्वाननुज्ञातस्त्वया द्विज
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः। शपेयं त्वां महाराज परीभावाय सर्वशः
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ। अनुजानामि युध्यस्व विजयं समवाप्नुहि
करवाणि च ते कामं ब्रूहि त्वमभिकाङ्क्षितम् । एवं गते महाराज युद्धादन्यत्किमिच्छसि
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्। इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैःक
ब्रवीम्येतत्क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि। योत्स्येऽहं कौरवस्यार्थे तवाशास्यो जयो मया
जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम्। युध्यस्व कौरवस्यार्थे वर एष वृतो मया
ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव । अहं त्वामभिजानामि रणे शत्रून्विजेष्यसि
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः। युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते
पृच्छामि त्वां द्विजश्रेष्ठ श्रृणु यन्मेऽभिकाङ्क्षितम्। कथं जयेयं संग्रामे भवन्तमपराजितम्
न तेऽस्ति विजयस्तावद्यावद्युद्ध्याम्यहं रणे। ममाशु निधने राजन्यतस्व सह सदरैः
हन्त तस्मान्महाबाहो वधोपायं वदात्मनः। आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते
न शत्रुं तात पश्यामि यो मां हन्याद्रथे स्थितम्। युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम्
ऋते प्रायगतं रजन्न्यस्तशस्त्रमचेतनम् । हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते
शस्त्रं चाहं रणे जह्यां श्रुत्वा तु महदप्रियम्। श्रद्धेपवाक्यात्पुरुषादेतत्सत्यं ब्रवीति ते
एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः। अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति
सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् । उवाच दुर्धर्षतमं वाक्यं वाक्यविदां वरः
अनुमानये त्वां योत्स्येऽहं गुरो विगतकल्मषः । जयेयं च रिपून्सर्वाननुज्ञातस्त्वयाऽनघ
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः। शपेयं त्वां महाराज परीभावाय सर्वशः
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः
तेषामर्थे महाराज योद्धव्यमिति मे मतिः । अतस्त्वां क्लीबवद्ब्रूयांयुद्धादन्यत्किमिच्छसि
हन्त पृच्छामि ते तस्मादाचार्य श्रृणु मे वचः। इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः
तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम्। अवध्योऽहं महीपाल यद्ध्यस्व जयमाप्नुहि
प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप । आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते
एतच्छ्रुत्वा महाराज गौतमस्य विशांपते। अनुमान्य कृपं राजा प्रययौ येन मद्रराट्
स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् । उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः
अनुमानये त्वां दुर्धर्ष योत्स्ये विगतकल्मषः । जयेयं नु परान्राजन्ननुज्ञातस्त्वया रिपून्