प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव । यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे
व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि । एवं गते महाराज न तवास्ति पराजयः
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्। इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः
अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन । भृतोऽस्त्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि
मन्त्रयस्व महाबाहो हितैषी मम नित्यशः। युध्यस्व कौरवस्यार्थे ममैष सततं वरः
राजन्किमत्र साह्यं ते करोमि कुरुनन्दन। कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम्
कथं जयेयं संग्रामे भवन्तमपराजितम्। एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि
नैनं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे। विजयेत पुमान्कश्तित्साक्षादपि शतक्रतुः
हन्त पृच्छामि तस्मात्त्वां पितामह नमोस्तु ते। वधोपायं ब्रवीहि त्वमात्मनः समरे परैः
न स्म तं तात पश्यामि समरे यो जयेत माम्। न तावन्मृत्युकालोऽपि पुनरागमनं कुरु
ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन। शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च
प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति। पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह
स द्रोणमभिवाद्याथ कृत्वं चाभिप्रदक्षिणम् । उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः
आमन्त्रये त्वां भगवन्योत्स्ये विगितकल्मषः । कथं जये रिपून्सर्वाननुज्ञातस्त्वया द्विज
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः। शपेयं त्वां महाराज परीभावाय सर्वशः
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ। अनुजानामि युध्यस्व विजयं समवाप्नुहि
करवाणि च ते कामं ब्रूहि त्वमभिकाङ्क्षितम् । एवं गते महाराज युद्धादन्यत्किमिच्छसि
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्। इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैःक
ब्रवीम्येतत्क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि। योत्स्येऽहं कौरवस्यार्थे तवाशास्यो जयो मया
जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम्। युध्यस्व कौरवस्यार्थे वर एष वृतो मया
ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव । अहं त्वामभिजानामि रणे शत्रून्विजेष्यसि
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः। युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते
पृच्छामि त्वां द्विजश्रेष्ठ श्रृणु यन्मेऽभिकाङ्क्षितम्। कथं जयेयं संग्रामे भवन्तमपराजितम्
न तेऽस्ति विजयस्तावद्यावद्युद्ध्याम्यहं रणे। ममाशु निधने राजन्यतस्व सह सदरैः
हन्त तस्मान्महाबाहो वधोपायं वदात्मनः। आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते
न शत्रुं तात पश्यामि यो मां हन्याद्रथे स्थितम्। युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम्
ऋते प्रायगतं रजन्न्यस्तशस्त्रमचेतनम् । हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते
शस्त्रं चाहं रणे जह्यां श्रुत्वा तु महदप्रियम्। श्रद्धेपवाक्यात्पुरुषादेतत्सत्यं ब्रवीति ते
एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः। अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति
सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् । उवाच दुर्धर्षतमं वाक्यं वाक्यविदां वरः