ते सेने स्तिमिते सञ्जे वीक्षमाणे परस्परम् । गङ्गायमुनयोर्वेगो यथैवैत्य परस्परम्
एवं प्रवत्ते ते सेने निःशब्दे जनसंसदि । चित्रे पट इवालेख्ये दर्शनीयतरे शुभे
ततो युधिष्ठिरो दृष्ट्वा युद्धाय समवस्थिते। ते सेने सागरप्रख्ये मुहुः प्रज्वलिते नृप
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् । अवरुह्य रथात्क्षिप्रं पद्म्यामेव कृताञ्जलिः
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः । वाग्यतः प्रययौ धीरः प्राङ्भुखो रिपुवाहिनीम्
तं प्रयान्तमभिप्रेभ्य कुन्तीपुत्रो धनञ्जयः । अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात्
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम तम् । तथा मुख्याश्च राजानस्तच्चित्ता जग्मुरुत्सुकाः
किं ते व्यवसितं राजन्यदस्मानपहाय वै। प्रद्म्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम्
क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः। दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव
एवं गते त्वयि ज्येष्ठे मम भ्रातरि भारत। भीमे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु
अस्मिन्रणसमूहे वै वर्तमाने महाभये। उत्सृज्य क्व नु गन्तासि शत्रूनभिमुखो नृप
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः। नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः
तानुवाच महाप्राज्ञो वासुदेवो महामनाः । अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च। अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः
श्रूयते हि पुराकल्पे गुरूनननुमान्य यः। युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः
अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः । ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम
एवं ब्रुवति कृष्णेऽत्र धार्तराष्ट्रचमूं प्रति। हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन्
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः । मिथः संकथयांचक्रुरेषो हि कुलपांसनः
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकम् । युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः
धनञ्जये कथं नाथे पाण्डवे च वृकोदरे । नकुले सहदेवे च भीतिरभ्येति पाण्डवम्
न नूनं क्षत्रियकुले जातः संप्रथिते भुवि। यथाऽस्य हृदयं भीतमल्पसत्वस्य संयुगे
ततस्ते सैनिकाः सर्वे प्रशंसन्ति स्म कौरवान् । हृष्टाः सुमनसो भूत्वा चेलानि दुधुवुश्च ह
व्यनिन्दंश्च तथा सर्वे योधास्तव विशांपते। युधिष्ठिरं ससोदर्यं सहितं केशवनेन हि
ततस्तत्कौरवं सैन्यं धिक्वृत्वा तु युधिष्ठिरम् । निःशब्दमभवत्तूर्णं पुनरेव विशांपते
किं नु वक्ष्याति राजाऽसौ किं भीष्मः प्रतिवक्ष्यति। किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति
विवक्षितं किमस्येति संशयः सुमहानभूत् । उभयो सेनयो राजन्युधिष्ठिरकृते तदा
सोऽवगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् । भीष्ममेवाभ्यात्तूर्णं भ्रातृभिः परिवारितः
तमुवाच ततः पादौ कारभ्यां पीड्य पाण्डवः । भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम्
आमन्त्रये त्वां दुर्धर्ष त्वया योत्स्यामहे सह। अनजानीहि मां तात आशिषश्च प्रयोजय
यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते। शपेयं त्वां महाराज परीभावाय भारत