गीता सुगीता कर्तव्या किमन्यैः शास्त्रसंग्रहैः । या स्वयं पद्मनाभस्य सुखपद्माद्विनिःसृता
सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः। सर्वतीर्थमयी गङ्गा सर्वदेवमयो मनुः
गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते। चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते
षट्शतानि सविंशानि श्लोकानां प्राह केशवः। अर्जुनः सप्तपञ्चाशत्सप्तषष्टिं तु सञ्जयः
धृतराष्ट्रः श्लोकमेकं गीताया मानमुच्यते । भारतामृतसर्वस्वगीताया मथितस्य च। सारमुद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम्
ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् । पुनरेव महानादं व्यसृजन्त महारथाःक
पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः । दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान्
ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः । सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत्
तथा देवाः सगन्धर्वाः पितरश्च जनाधिप । सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया
ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् । समीयुस्तत्र सहिता द्रुष्टुं तद्वैशसं महत्
ते सेने स्तिमिते सञ्जे वीक्षमाणे परस्परम् । गङ्गायमुनयोर्वेगो यथैवैत्य परस्परम्
एवं प्रवत्ते ते सेने निःशब्दे जनसंसदि । चित्रे पट इवालेख्ये दर्शनीयतरे शुभे
ततो युधिष्ठिरो दृष्ट्वा युद्धाय समवस्थिते। ते सेने सागरप्रख्ये मुहुः प्रज्वलिते नृप
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् । अवरुह्य रथात्क्षिप्रं पद्म्यामेव कृताञ्जलिः
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः । वाग्यतः प्रययौ धीरः प्राङ्भुखो रिपुवाहिनीम्
तं प्रयान्तमभिप्रेभ्य कुन्तीपुत्रो धनञ्जयः । अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात्
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम तम् । तथा मुख्याश्च राजानस्तच्चित्ता जग्मुरुत्सुकाः
किं ते व्यवसितं राजन्यदस्मानपहाय वै। प्रद्म्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम्
क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः। दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव
एवं गते त्वयि ज्येष्ठे मम भ्रातरि भारत। भीमे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु
अस्मिन्रणसमूहे वै वर्तमाने महाभये। उत्सृज्य क्व नु गन्तासि शत्रूनभिमुखो नृप
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः। नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः
तानुवाच महाप्राज्ञो वासुदेवो महामनाः । अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च। अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः
श्रूयते हि पुराकल्पे गुरूनननुमान्य यः। युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः
अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः । ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम
एवं ब्रुवति कृष्णेऽत्र धार्तराष्ट्रचमूं प्रति। हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन्
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः । मिथः संकथयांचक्रुरेषो हि कुलपांसनः
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकम् । युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः
धनञ्जये कथं नाथे पाण्डवे च वृकोदरे । नकुले सहदेवे च भीतिरभ्येति पाण्डवम्