गमिष्यामो वनं तस्माद्गङ्गायामुनसङ्गमम्। एवमुक्त्वा मुनिगणाः प्रतिजग्मुर्यथागतम्
गतान्मुनिगणान्दृष्ट्वा पुत्रं संगृह्य पाणिना। मातापितृभ्यां रहिता यथा शोचन्ति दारकाः
तथा शोकपरीताङ्गी धृतिमालम्ब्य दुःखिता। गतेषु तेषु विप्रेषु राजमार्गेण भामिनी
पुत्रेणैव सहायेन सा जगाम शनैः शनैः। अदृष्टपूर्वान्पश्यन्वै राजमार्गेण पौरवः
हर्म्यप्रसादचैत्यांश्च सभा दिव्या विचित्रिताः। कौतूहलसमाविष्टो दृष्ट्वा विस्मयमागतः
सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनामिव श्रियम्। गत्या च संहीसदृशीं कोकिलेन स्वरे समाम्
मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम्। स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम्
पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम्। करान्तमितमध्यैषा सुकेशी संहतस्तनी
जघनं सुविशालं वै ऊरू करिकरोपमौ। रक्ततुङ्गतलौ पादौ धरण्यां सुप्रतिष्ठितौ
एवं रूपसमायुक्ता स्वर्गलोकादिवागता। इति स्म सर्वेऽमन्यन्त दुष्यन्तनगरे जनाः
पुनः पुनरवोचंस्ते शाकुन्तलगुणानपि। सिंहेक्षणः सिंहदंष्ट्रः सिंहस्कन्धो महाभुजः
सिंहोरस्कः सिंहबलः सिंहविक्रान्तगाम्ययम्। पृथ्वंसः पृथुवक्षाश्च छत्राकारशिरा महान्
पाणिपादतले रक्तो रक्तास्यो दुन्दुभिस्वनः। राजलक्षणयुक्तश्च राजश्रीश्चास्य लक्ष्यते
आकारेण च रूपेण शरीरेणापि तेजसा। दुष्यन्तेन समो ह्येष कस्य पुत्रो भविष्यति
एवं ब्रुवन्तस्ते सर्वे प्रशशंसुः सहस्रशः। युक्तिवादानवोचन्त सर्वाः प्राणभृतः स्त्रियः
बान्धवा इव सस्नेहा अनुजग्मुः शकुन्तलाम्। पौराणां तद्वचः श्रुत्वा तूष्णींभूता शकुन्तला
वेश्मद्वारं समासाद्य विह्वला सा नृपात्मजा। चिन्तयामास सहसा कार्यगौरवकारणात्
लज्जया च परीताङ्गी राजन्राजसमक्षतः। अघृणा किं नु वक्ष्यामि दुष्यन्तं मम कारणात्
एवमुक्त्वा तु कृपणा चिन्तयन्ती शकुन्तला।' अभिसृत्य च राजानं वेदिता सा प्रवेशिता
सह तेन कुमारेण तरुणादित्यवर्चसा। `सिंहासनस्थं राजानं महेन्द्रसदृशद्युतिम्
शकुन्तला नतशिराः परं हर्षमवाप्य च।' पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला
अभिवादय राजानं पितरं ते दृढव्रतम्। एवमुक्त्वा सुतं तत्र लज्जानतमुखी स्थिता
स्तम्भमालिङ्ग्य राजानं प्रसीदस्वेत्युवाच सा। शाकुन्तलोपि राजानमभिवाद्य कृताञ्जलिः
हर्षेणोत्फुल्लनयनो राजानं चान्ववैक्षत। दुष्यन्तो धर्मबुद्ध्या तु चिन्तयन्नेव सोब्रवीत्
किमागमनकार्यं ते ब्रूहि त्वं वरवर्णिनि। करिष्यामि न संदेहः सपुत्राया विशेषतः
प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम। एष पुत्रो हि ते राजन्मय्युत्पन्नः परंतप
तस्मात्पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम्। यथोक्तमाश्रमे तस्मिन्वर्तस्व पुरुषोत्तम
मया समागमे पूर्वं कृतः स समयस्त्वया। तत्त्वं स्मर महाबाहो कण्वाश्रमपदं प्रति
तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत। शकुन्तला सपुत्रा च मनस्यन्तरधीयत
स धारयन्मनस्येनां सपुत्रां सस्मितां तदा। तदोपगृह्य मनसा चिरं सुखमवाप सः