इन्द्रसद्मप्रतीकाशं संपूर्णं वित्तसंचयैः। तस्य मध्ये सभा दिव्या नानारत्नविभूषिता
तस्यां सभायां राजर्षिः सर्वालङ्कारभूषितः। ब्राह्मणैः क्षत्रियैश्चापि मन्त्रिभिश्चापि संवृतः
संस्तूयमानो राजेन्द्रः सूतमागधबन्दिभिः। कार्यार्थिषु तदाऽभ्येत्य कृत्वा कार्यं गतेषु सः
सुखासीनोऽभवद्राजा तस्मिन्काले महर्षयः। शकुन्तानां स्वनं श्रुत्वा निमित्तज्ञास्त्वलक्षयन्
शकुन्तले निमित्तानि शोभनानि भवन्ति नः। कार्यसिद्धिं वदन्त्येते ध्रुवं राज्ञी भविष्यसि। अस्मिंस्तु दिवसे पुत्रो युवराजो भविष्यति
वर्धमानपुरद्वारं तूर्यघोषनिनादितम्। शकुन्तलां पुरस्कृत्य विविशुस्ते महर्षयः
प्रविशन्तं नृपसुतं प्रशशंसुश्च वीक्षकाः। वर्धमानपुरद्वारं प्रविशन्नेव पौरवः
इन्द्रलोकस्थमात्मानं मेने हर्षसमन्वितः
ततो वै नागराः सर्वे समाहूय परस्परम्। द्रष्टुकामा नृपसुतं समपद्यन्त भारत
देवतेव जनस्याग्रे भ्राजते श्रीरिवागता। जयन्तेनेव पौलोमी इन्द्रलोकादिहागता
इति ब्रुवन्तस्ते सर्वे महर्षीनिदमब्रुवन्। अभिवादयन्तः सहिता महर्षीन्देववर्चसः
अद्य नः सफलं जन्म कृतार्थाश्च ततो वयम्। एवं ये स्म प्रपश्यामो महर्षीन्सूर्यवर्चसः
इत्युक्त्वा सहिताः केचिदन्वगच्छन्त पौरवम्। हैमवत्याः सुतमिव कुमारं पुष्करेक्षणम्
ये केचिदब्रुवन्मूढाः शाकुन्तलदिदृक्षवः। कृष्णाजिनेन संछन्नाननिच्छन्तो ह्यवेक्षितुम्
पिशाचा इव दृश्यन्ते नागराणां विरूपिणः। विना सन्ध्यां पिशाचास्ते प्रविशन्ति पुरोत्तमम्
क्षुत्पिपासार्दितान्दीनान्वल्कलाजिनवाससः। त्वगस्थिभूतान्निर्मांसान्धमनीसन्ततानपि
पिङ्गलाक्षान्पिङ्गजटान्दीर्घदन्तान्निरूदरान्। विशीर्षकानूर्ध्वहस्तान्दृष्ट्वा हास्यन्ति नागराः
एवमुक्तवतां तेषां गिरं श्रुत्वा महर्षयः। अन्योन्यं ते समाहूय इदं वचनमब्रुवन्
उक्तं भगवता वाक्यं न कृतं सत्यवादिना। पुरप्रवेशनं नात्र कर्तव्यमिति शासनम्
किं कारणं प्रवेक्ष्यामो नगरं दुर्जनैर्वृतम्। त्यक्तसङ्गस्य च मुनेर्नगरे किं प्रयोजनम्
गमिष्यामो वनं तस्माद्गङ्गायामुनसङ्गमम्। एवमुक्त्वा मुनिगणाः प्रतिजग्मुर्यथागतम्
गतान्मुनिगणान्दृष्ट्वा पुत्रं संगृह्य पाणिना। मातापितृभ्यां रहिता यथा शोचन्ति दारकाः
तथा शोकपरीताङ्गी धृतिमालम्ब्य दुःखिता। गतेषु तेषु विप्रेषु राजमार्गेण भामिनी
पुत्रेणैव सहायेन सा जगाम शनैः शनैः। अदृष्टपूर्वान्पश्यन्वै राजमार्गेण पौरवः
हर्म्यप्रसादचैत्यांश्च सभा दिव्या विचित्रिताः। कौतूहलसमाविष्टो दृष्ट्वा विस्मयमागतः
सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनामिव श्रियम्। गत्या च संहीसदृशीं कोकिलेन स्वरे समाम्
मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम्। स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम्
पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम्। करान्तमितमध्यैषा सुकेशी संहतस्तनी
जघनं सुविशालं वै ऊरू करिकरोपमौ। रक्ततुङ्गतलौ पादौ धरण्यां सुप्रतिष्ठितौ
एवं रूपसमायुक्ता स्वर्गलोकादिवागता। इति स्म सर्वेऽमन्यन्त दुष्यन्तनगरे जनाः