यानसन्धिस्ततः पर्व भगवद्यानमेव च। मातलीयमुपाख्यानं चरितं गालवस्य च
सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च। जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्
सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम्। उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः। `मन्त्रस्य निश्चयं कृत्वा कार्यस्य समनन्तरम्
श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम्।' निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः
रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्। उलूकदूतागमनं पर्वामर्षविवर्धनम्
अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्।। भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते
जम्बूखम्डविनिर्माणं पर्वोक्तं तदनन्तरम्।। भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम्
दिव्यं चक्षुर्ददौ यत्र संजयाय महामुनिः।' पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः। द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः
अभिमन्युवधः पर्व प्रतिज्ञा पर्व चोच्यते। जयद्रथवधः पर्व घटोत्कचवधस्ततः
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्। मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्। ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्
सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम्। अत ऊर्ध्वं सुबीभत्सं पर्व सौप्तिकमुच्यते
ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम्। जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्। चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः
आभिषेचनिकं पर्व धर्मराजसर्य धीमतः। प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्
शान्तिपर्व ततो यत्र राजधर्मानुशासनम्। आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्
शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्। प्रादुर्भावश्च दुर्वासःसंवादश्चैव मायया
ततः पर्व परिज्ञेयमानुशासनिकं परम्। स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च। नारदागमनं पर्व ततः परमिहोच्यते
मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम्। महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः
हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्। विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा
भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्। एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना
यथावत्सूतपुत्रेण रौमहर्षणिना ततः। उक्तानि नैमिशारण्ये पर्वाण्यष्टादशैव तु
समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः। पौष्यं पौलोममास्तीकमादिरंशावतारणम्
संभवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः। तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्। विदुरागमनं चैव राज्यलाभस्तथैव च
वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः। हरणाहरणं चैव दहनं खाण्डवस्य च
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः। आस्तीके सर्वनागानां गरुडस्य च संभवः
क्षीरोदमथं चैव जन्मोच्चैःश्रवसस्तथा। यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च