यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः
यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति
मुखमात्यन्तिकं यत्तद्वुद्धिग्राह्यमतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते
तं विद्याद्दुःखसंयोगवयोगं योगसंज्ञितम्। स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनिवम्य समन्ततः
शनैः शनैरुपरमेद्भुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत्
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्
प्रशान्तमनसं ह्येनं योगिनं मुखमुत्तमम् । उपैति श्चान्तरजसं ब्रह्मभूतमकल्मषम्
युञ्चयेवं सदात्मानं योगी विमतकल्मषःक । मुखेन ब्रह्मसंस्कपर्शमत्यन्तं सुखमश्रुते
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि। ईक्षते कयोगयुक्तात्मा सर्वत्र समदर्शनः
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखंक वा यदि वा दुःखं स योगी मरमो मतः
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन। एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिरां
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्
असंशयं महाबाहो मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते
असंयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽऽवाप्तुमुपायतः
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः। अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति। अप्रतिकष्ठो महाबाहो विमूढो ब्रह्मणः पथि
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते
अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृश्यम्
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशेऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः । अनेकन्मसंसिद्धस्ततो याति परां गतिम्
तपस्विभ्योऽधिको योगी ज्ञानिभ्योपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भावार्जुन
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान्भजते यो मां स मे युक्ततमो मतः
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु