गन्तुं नेच्छति कल्याणी तस्मात्तात वहस्व वै। शक्तस्त्वं प्रतिगन्तुं च मुनिभिः सह पौरव
इत्युक्त्वा सर्वदमनं कण्वः शिष्यानथाब्रवीत्। शकुन्तलामिमां शीग्रं सपुत्रामाश्रमादितः
भर्तुः प्रापयताभ्याशं सर्वलक्षणपूजिताम्। नारीणां चिरवासो हि बान्धवेषु न रोचते
कीर्तिचारित्रधर्म्नस्तस्मान्नयत मा चिरम्
धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु। काश्यपात्प्राप्य चानुज्ञां मुमुदे च शकुन्तला
कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत्। तथेत्युक्त्वा तु कण्वं च मातरं पौरवोऽब्रवीत्। किं चिरायसि मातस्त्वं गमिष्यामो नृपालयम्
एवमुक्त्वा तु तां देवीं दुष्यन्तस्य महात्मनः। अभिवाद्य मुनेः पादौ गन्तुमैच्छत्स पौरवः
शकुन्तला च पितरमभिवाद्य कृताञ्जलिः। प्रदक्षिणीकृत्य तदा पितरं वाक्यमब्रवीत्
अज्ञानान्मे पिता चेति दुरुक्तं वापि चानृतम्। अकार्यं वाप्यनिष्टं वा क्षन्तुमर्हति तद्भवान्
एवमुक्तो नतशिरा मुनिर्नोवाच किंचन। मनुष्यभावात्कण्वोऽपि मुनिरश्रूण्यवर्तयत्
अब्भक्षान्वायुभक्षांश्च शीर्णपर्णाशनान्मुनीन्। फलमूलाशिनो दान्तान्कृशान्धमनिसंततान्
व्रतिनो जटिलान्मुण्डान्वल्कलाजिनसंवृतान्। समाहूय मुनिः कण्वः कारुण्यादिदमब्रवीत्
मया तु लालिता नित्यं मम पुत्री यशस्विनी। वने जाता विवृद्धा च न च जानाति किंचन
आश्रमात्तु पथा सर्वैर्नीयतां क्षत्रियालयम्। द्वितीययोजने विप्राः प्रतिष्ठानं प्रतिष्ठितम्
प्रतिष्ठाने पुरे राजा शाकुन्तलपितामहः। अध्युवास चिरं कालमुर्वश्या सहितः पुरा
अनूपजाङ्गलयुतं धनधान्यसमाकुलम्। प्रतिष्ठितं पुरवरं गङ्गायामुनसङ्गमे
तत्र सङ्गममासाद्य स्नात्वा हुतहुताशनाः। शाकमूलफलाहारा निवर्तध्वं तपोधनाः। अन्यथा तु भवेद्विप्रा अध्वनो गमने श्रमः
तथेत्युक्त्वा च ते सर्वे प्रातिष्ठन्त महौजसः। `शकुन्तलां पुरस्कृत्य दुष्यन्तस्य पुरं प्रति
गृहीत्वा चामरप्रख्यं पुत्रं कमललोचनम्। आजग्मुश्च पुरं रम्यं दुष्यन्ताध्युषितं वनात्
शकुन्तलां समादाय मुनयो धर्मवत्सलाः। ते वनानि नदीः शैलान्गिरिप्रस्रवणानि च
कन्दराणि नितम्बांश्च राष्ट्राणि नगराणि च। आश्रमाणि च पुण्यानि गत्वा चैव गतश्रमाः
शनैर्मध्याह्नवेलायां प्रतिष्ठानं समाययुः। तां पुरीं पुरुहूतेन ऐलस्यार्थे विनिर्मिताम्
परिघाट्टालकैर्मुख्यैरुपकल्पशतैरपि। शतघ्नीचक्रयन्त्रैश्च गुप्तामन्यैर्दुरासदाम्
हर्म्यप्रसादसंबाधां नानापण्यविभूषिताम्। मण्टपैः ससभै रम्यैः प्रपाभिश्च समावृताम्
राजमार्गेण महता सुविभक्तेन शोभिताम्। कैलासशिखराकारैर्गोपुरैः समलङ्कृताम्
द्वारतोरणनिर्यूहैर्मङ्गलैरुपशोभिताम्। उद्यानाम्रवणोपेतां महतीं सालमेखलाम्
सर्वपुष्करिणीभिश्च उद्यानैश्च समावृताम्। वर्णाश्रमैः स्वधर्मस्थैर्नित्योत्सवसमाहितैः
धनधान्यसमृद्धैश्च संतुष्टै रत्नपूजितैः। कृतयज्ञैश्च विद्वद्भिरग्निहोत्रपरैः सदा
वर्जिता कार्यकरणैर्दानशीलैर्दयापरैः। अधर्मभीरुभिः सर्वैः स्वर्गलोकजिगीषुभिः
एवंविधजनोपेतमिन्द्रलोकमिवापरम्। तस्मिन्नगरमध्ये तु राजवेश्म प्रतिष्ठितम्