के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने । मामकाः पाण्डवेया वा तन्ममाचक्ष्व सञ्जय
कस्य सेनासमुदये गन्धो माल्यसमुद्भवः । वायुः प्रदक्षिणश्चैव योधानामभिगर्जताम्
उभयोः सेनयोस्तत्र योधा जहृषिरे तदा। स्रजः समाः सुगन्धानामुभयत्र समुद्भवः
संहतानामनीकानां व्यूढानां भरतर्षभ । संसर्गात्समुदीर्णानां विमर्दः सुमहानभूत्
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः। शूराणां रणशूराणां गर्जतामितरेतरम्
उभयोः सेनयो राजन्महान्व्यतिकरोऽभवत्। अन्योन्यं वीक्षमाणानां योधानां भरतर्षभ। कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम्
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भेक्षमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान्
न चैतद्वीद्मः कतरन्नो गरीयो यद्वा जयम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः। यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्
न हि प्रपश्यामि ममापनुद्या- द्यच्छोकमुच्छोषणमिन्द्रियाणाम्। अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्
एवमुकत्वा हृषीकेशं गुडाकेशं परंतप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह
तमुवाच हृषीकेशः प्रहसन्निव भारत। सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतासूंश्च नानुशोचन्ति पाण्डिताः
नत्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः। न चैव नभविष्यामः सर्वे वयमतः परम्
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्स्यास्तांस्तितिक्षस्व भारत
यं हि व्यथयन्त्येते पुरुषं पुरुषर्षभ। समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते
नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिःक
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्। विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते
न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्तये हन्यमाने शरीरे
वेदाविनाशिनं नित्यं य एनमजमव्ययम्। कथं स पुरुषः पार्थ कं घातयति हन्ति कम्
वासांसि जीर्णानि यथा विहाय नवानि गृह्णानि नरोऽपराणि। तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो न शोषयति मारुतः
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः