वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि । जम्बूकटकचैत्येषु नित्यं सन्निहितालये
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम्। स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि
स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती। सावित्री वेदमाता च तथा वेदान्त उच्यते
स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना । जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे
कान्तारभयदुर्गेषु भक्तानां चालयेषु च । नित्यं वससि पाताले युद्धे जयसि दानवान्
त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च । संध्या प्रभावती चैव सावित्री जननी तथा
तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी । भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः
ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला। अन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता
स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव । नरस्त्वमसि दुर्धर्ष नारायणसहायवान्
अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् । इत्येवमुक्त्वा वरदा क्षणेनान्तरधीयत
लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः । आरुरोह ततः पार्थो रथं परमसंमतम्
कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौः प्रदध्मतुः । य इदं पठते स्तोत्रं कल्य उत्थाय मानवः
यक्षरक्षःपिशाचेभ्यो न भयं विद्यते सदा। न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः
न भयं विद्यते तस्य सदा राजकुलादपि । विवादेक जयमाप्नोति बद्धो मुच्यति बन्धनात्
दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते। संग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम्
आरोग्यबलसंपन्नो जीवेद्वर्षशतं तथा । एतद्दृष्टं प्रसादात्तु मया व्यासस्य धीमतः
मोहादेतौ न जानन्ति नरनारायणावृषी । तव पुत्रा दुरात्मानः सर्वे मन्युवशानुगाः
प्राप्तकालमिदं वाक्यं कालपाशेन कुण्ठिताः । द्वैपायनो नारदश्च कण्वो रामस्तथानघः । अवारयंस्तव सुतं न चासौ तद्गृहीतवान्
यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः। यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय। उदग्रमनसः के वा के वा दीना विचेतसः
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने । मामकाः पाण्डवेया वा तन्ममाचक्ष्व सञ्जय
कस्य सेनासमुदये गन्धो माल्यसमुद्भवः । वायुः प्रदक्षिणश्चैव योधानामभिगर्जताम्
उभयोः सेनयोस्तत्र योधा जहृषिरे तदा। स्रजः समाः सुगन्धानामुभयत्र समुद्भवः
संहतानामनीकानां व्यूढानां भरतर्षभ । संसर्गात्समुदीर्णानां विमर्दः सुमहानभूत्
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः। शूराणां रणशूराणां गर्जतामितरेतरम्
उभयोः सेनयो राजन्महान्व्यतिकरोऽभवत्। अन्योन्यं वीक्षमाणानां योधानां भरतर्षभ। कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम्
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन