गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम् । तद्यथा विजयश्चास्य सन्नतिश्चापरो गुणः
अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः। पुरुषः सनातनमयो यतः कृष्णस्ततो जयः
पुरा ह्येष हरिर्भूत्वा विकुण्ठोऽकुण्ठसायकः। सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् । तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः
तस्य ते न व्यथां कांचिदिह पश्यामि भारत । यस्य ते यजमाशास्ते विश्वभुक् त्रिदिवेश्वरः
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् । प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाःक । स्वर्गं परममिच्छन्तः सुयुद्धेन कुरूद्वहाः
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना । धृष्टद्युम्नश्चरन्नग्रे भीमसेनेन पालितः
अनीकं दक्षिणं राजन्युयुधानेन पालितम् । श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता
महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम्। युधिष्ठिरः काञ्चनभाण्डयोक्रं समास्थितो नागबलस्य मध्ये
समुच्छ्रितं दन्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति। प्रदक्षिणं चैनमुपाचरन्त महर्षयः संस्तुतिभिर्महेन्द्रम्
पुरोहिताः शत्रुवधं वदन्तो ब्रह्मर्षिसिद्धाः श्रुतवन्त एनम् । जप्यैश्च मन्त्रैश्च महौषधीभिः समन्ततः स्वस्त्ययनं ब्रुवन्तः
ततः स वस्त्राणि तथैव गाश्च फलानि पुष्पाणि तथैव निष्कान् । कुरूत्तमो ब्राह्मणसान्महात्मा कुर्वन्ययौ शक्र इवामरेशः
सहस्रसूर्यः शतकिङ्किणीकः परार्ध्यजाम्बूनदहेमचित्रः। रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः
तमास्थितः केशवसंगृहीतं कपिध्वजो गाण्डिवबाणपाणिः। धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता कदाचित्
उद्धर्तयिष्यंस्तव पुत्रसेना- मतीव रौद्रं स बिभर्ति रूपम् । अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात्
स भीमसेनः सहितो यमाभ्यां वृकोदरो वीररथस्य गोप्ता । तं तत्र सिंहर्षभमत्तखेलं लोके महेन्द्रप्रतिमानकल्पम्
समीक्ष्य सेनाग्रगतं दुरासदं संविव्यथुः पङ्कगता यथा द्विपाः । वृकोदरं वारणाजदर्पं योधास्त्वदीया भयविग्नसत्त्वाः
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् । अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः
य एष रोषात्प्रतपन्बलस्थो यो नः सेनां सिंह इवेक्षते च। स एष भीष्मः कुरुवंशकेतु- र्येनाहृतास्त्रिशतं वाजिमेधाः
एतान्यनीकानि महानुभावं गूहन्ति मेघा इव रश्मिमन्तम्। एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण
धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम्। अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत्
शुचिर्भूत्वा महाबाहो संग्रामाभिमुखे स्थितः। पराजयाय श्त्रुणां दुर्गास्तोत्रमुदीरय
एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता। अवतीर्य रथात्पार्थः स्तोत्रमाह कृताञ्जलिः
नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि । कुमारि कालि कापालि कपिले कृष्णपिङ्गले
भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते । चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि
कात्यायनि महाभागे करालि विजये जये। शिखिपिच्छध्वजधरे नानाभरणभूषिते
अट्टशूलप्रहरणे स्वङ्गखेटकधारिणि । गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे
महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि । अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये
उभे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि । हिरण्याश्चि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते