धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे । धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्षिणा । कल्पितः शास्त्रदृष्टेन विधिना भूरिवर्चसा
ते वयं संशय्नं प्राप्ताः ससैन्याः शत्रुकर्षण । कथमस्मान्महाव्यूहादुत्थानं नो भविष्यति
अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा । विषण्णमिव संप्रेक्ष्य तव राजन्ननीकिनीम्
प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि । जयन्त्यल्पतरा येन तन्निबोध विशांपते
तत्र ते कारणं राजन्प्रवक्ष्याम्यनसूयवे । नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव
एनमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत्। पितामहः किल पुरा महेन्द्रादीन्दिवौकसः
न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः । यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च
त्वक्त्वाऽधर्मं तथा सर्वे धर्मं चोत्तममास्थिताः । युध्यध्वमतहंकारा यतो धर्मस्ततो जयः
एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः। यथा तु नारदः प्राह यतः कृष्णस्ततो जयः
गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम् । तद्यथा विजयश्चास्य सन्नतिश्चापरो गुणः
अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः। पुरुषः सनातनमयो यतः कृष्णस्ततो जयः
पुरा ह्येष हरिर्भूत्वा विकुण्ठोऽकुण्ठसायकः। सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् । तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः
तस्य ते न व्यथां कांचिदिह पश्यामि भारत । यस्य ते यजमाशास्ते विश्वभुक् त्रिदिवेश्वरः
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् । प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाःक । स्वर्गं परममिच्छन्तः सुयुद्धेन कुरूद्वहाः
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना । धृष्टद्युम्नश्चरन्नग्रे भीमसेनेन पालितः
अनीकं दक्षिणं राजन्युयुधानेन पालितम् । श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता
महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम्। युधिष्ठिरः काञ्चनभाण्डयोक्रं समास्थितो नागबलस्य मध्ये
समुच्छ्रितं दन्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति। प्रदक्षिणं चैनमुपाचरन्त महर्षयः संस्तुतिभिर्महेन्द्रम्
पुरोहिताः शत्रुवधं वदन्तो ब्रह्मर्षिसिद्धाः श्रुतवन्त एनम् । जप्यैश्च मन्त्रैश्च महौषधीभिः समन्ततः स्वस्त्ययनं ब्रुवन्तः
ततः स वस्त्राणि तथैव गाश्च फलानि पुष्पाणि तथैव निष्कान् । कुरूत्तमो ब्राह्मणसान्महात्मा कुर्वन्ययौ शक्र इवामरेशः
सहस्रसूर्यः शतकिङ्किणीकः परार्ध्यजाम्बूनदहेमचित्रः। रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः
तमास्थितः केशवसंगृहीतं कपिध्वजो गाण्डिवबाणपाणिः। धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता कदाचित्
उद्धर्तयिष्यंस्तव पुत्रसेना- मतीव रौद्रं स बिभर्ति रूपम् । अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात्
स भीमसेनः सहितो यमाभ्यां वृकोदरो वीररथस्य गोप्ता । तं तत्र सिंहर्षभमत्तखेलं लोके महेन्द्रप्रतिमानकल्पम्
समीक्ष्य सेनाग्रगतं दुरासदं संविव्यथुः पङ्कगता यथा द्विपाः । वृकोदरं वारणाजदर्पं योधास्त्वदीया भयविग्नसत्त्वाः
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् । अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः
य एष रोषात्प्रतपन्बलस्थो यो नः सेनां सिंह इवेक्षते च। स एष भीष्मः कुरुवंशकेतु- र्येनाहृतास्त्रिशतं वाजिमेधाः