शारद्वतश्चोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी। शकैः किरातैर्यवनैः पह्लवैश्च सार्धं चमूमुत्तरतोऽभियाति
महारथैर्वष्णिभोजैः सुगुप्तं सुराष्ट्रकैर्विदितैरात्तशस्त्रैः । बृहद्बलं कृतवर्माभिगुप्तं बलं त्वदीयं दक्षिणेनाभियाति
संशप्तकानामयुतं रथानां मृत्युर्जयो वार्जुनस्येति सृष्टाः। येनार्जुनस्तेन राजन्कृतास्त्राः प्रयातारस्ते त्रिगर्ताश्च शूराः
साग्रं शतसहस्रं तु नागानां तव भारत । नागेनागे रथशतं शतमश्वा रथेरथे
अश्वेऽश्वे दश धानुष्का धानुष्के शत चर्मिणः। एवं व्यूढान्यनीकानि भीष्मेण तव भारत
संव्यूह्य मानुषं व्यूहं दैवं गान्धर्वमासुरम्। दिवसेदिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः
महारथौघविपुलः समुद्र इव घोषवान्। भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि
अनन्तरूपा ध्वजिनी नरेन्द्र भीमा त्वदीया न तु पाण्डवानाम्। तां चैव मन्ये बृहतीं दुष्प्रघर्षां यस्या नेता केशवश्चार्जुनश्च
बृहतीं धार्तराष्ट्रस्य सेनां दृष्ट्वा समुद्यताम्। विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः
व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः। अभेद्यमिव संप्रेक्ष्य विवर्णोऽर्जुनमब्रवीत्
धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे । धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्षिणा । कल्पितः शास्त्रदृष्टेन विधिना भूरिवर्चसा
ते वयं संशय्नं प्राप्ताः ससैन्याः शत्रुकर्षण । कथमस्मान्महाव्यूहादुत्थानं नो भविष्यति
अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा । विषण्णमिव संप्रेक्ष्य तव राजन्ननीकिनीम्
प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि । जयन्त्यल्पतरा येन तन्निबोध विशांपते
तत्र ते कारणं राजन्प्रवक्ष्याम्यनसूयवे । नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव
एनमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत्। पितामहः किल पुरा महेन्द्रादीन्दिवौकसः
न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः । यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च
त्वक्त्वाऽधर्मं तथा सर्वे धर्मं चोत्तममास्थिताः । युध्यध्वमतहंकारा यतो धर्मस्ततो जयः
एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः। यथा तु नारदः प्राह यतः कृष्णस्ततो जयः
गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम् । तद्यथा विजयश्चास्य सन्नतिश्चापरो गुणः
अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः। पुरुषः सनातनमयो यतः कृष्णस्ततो जयः
पुरा ह्येष हरिर्भूत्वा विकुण्ठोऽकुण्ठसायकः। सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् । तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः
तस्य ते न व्यथां कांचिदिह पश्यामि भारत । यस्य ते यजमाशास्ते विश्वभुक् त्रिदिवेश्वरः
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् । प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाःक । स्वर्गं परममिच्छन्तः सुयुद्धेन कुरूद्वहाः
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना । धृष्टद्युम्नश्चरन्नग्रे भीमसेनेन पालितः
अनीकं दक्षिणं राजन्युयुधानेन पालितम् । श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता
महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम्। युधिष्ठिरः काञ्चनभाण्डयोक्रं समास्थितो नागबलस्य मध्ये