विष्वग्वाताश्च विववुर्नीचैः शर्करकर्षिणः । रजश्चोद्धूयत महत्तम आच्छादयञ्जगत्
पपात महती चोल्का प्राङ्भुखी भरतर्षभ । उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना
अथ संनह्यमानेषु सैन्येषु भरतर्षभ । निष्प्रभोऽभ्युद्ययौ सूर्यः सघोषं भूश्चचाल च
व्यशीर्यत सनादा च भूस्तदा भरतर्षभ । निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् । प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किंचन
ध्वजानां धूयमानानां सहसा मातरिश्वना । किङ्किणीजालबद्धानां काञ्चनस्रग्वराम्बरैः
महतां सपताकानामादित्यसमतेजसाम् । सर्वं झणझणीभूतमासीत्तालवनेष्विव
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः । व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम्
ग्रसन्त इव मञ्जानो योधानां भरतर्षभ । दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम्
सूर्योदये सञ्जय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन्। मामका वा भीष्मनेत्राः समीपे पाण्डवा वा भीमनेत्रास्तदानीम्
केषां जघन्यौ समसूर्यौ सवायू केषां सेनां श्वापदाश्चाभषन्त । केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत्
उभे सेने तुल्यमिवोपयाते उभे व्यूहे हृष्टरूपे नरेन्द्र। उभे चित्रे वनराजिप्रकाशे तथैवोभे नागरथाश्वपूर्णे
उभे सेने बृहत्यौ भीमरूपे तथैवोभे भारत दुर्विषह्ये । तथैवोभे स्वर्गजयाय सृष्टे तथैवोभे सत्पुरुषोपजुष्टे
पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः । दैत्येन्द्रसेनेव च कौरवाणां देवेन्द्रसेनेव च पाण्डवानाम्
शीतो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राञ्श्वापदा व्याहरन्त । गजेन्द्राणां मदगन्धांश्च तीव्रा- न्न सेहिरे तव पुत्रस्य नागाः
दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्षं जालवन्तं प्रभिन्नम् । समास्थितो मध्यगतः कुरूणां संस्तूयमानो बन्दिभिर्मागधैश्च
चन्द्रप्रभं श्वेतमथातपत्रं सौवर्णस्रग्भ्राजति चोत्तमाङ्गे । तं सर्वतः शकुनिः पार्वतीयैः सार्धं गान्धारैर्याति गान्धारराजः
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः सखङ्गः । श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशैः
तस्य सैन्ये धार्तराष्ट्राश्च सर्वे बाह्लीकानामेकदेशः शलश्च। ये चाम्बष्ठाः क्षत्रिया ये च सिन्धो- स्तथा सौवीराः पञ्चनदाश्च शूराः
शोणैर्हयै रुक्मरथो महात्मा द्रोणो धनुष्पाणिरदीनसत्वः । आप्तो गुरुः प्रथितः सर्वराज्ञां पश्चाच्चमूमिन्द्र इवाभियाति
वार्धक्षत्रिः सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश्च। साल्वा मत्स्याः केकयाश्चेति सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः
शारद्वतश्चोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी। शकैः किरातैर्यवनैः पह्लवैश्च सार्धं चमूमुत्तरतोऽभियाति
महारथैर्वष्णिभोजैः सुगुप्तं सुराष्ट्रकैर्विदितैरात्तशस्त्रैः । बृहद्बलं कृतवर्माभिगुप्तं बलं त्वदीयं दक्षिणेनाभियाति
संशप्तकानामयुतं रथानां मृत्युर्जयो वार्जुनस्येति सृष्टाः। येनार्जुनस्तेन राजन्कृतास्त्राः प्रयातारस्ते त्रिगर्ताश्च शूराः
साग्रं शतसहस्रं तु नागानां तव भारत । नागेनागे रथशतं शतमश्वा रथेरथे
अश्वेऽश्वे दश धानुष्का धानुष्के शत चर्मिणः। एवं व्यूढान्यनीकानि भीष्मेण तव भारत
संव्यूह्य मानुषं व्यूहं दैवं गान्धर्वमासुरम्। दिवसेदिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः
महारथौघविपुलः समुद्र इव घोषवान्। भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि
अनन्तरूपा ध्वजिनी नरेन्द्र भीमा त्वदीया न तु पाण्डवानाम्। तां चैव मन्ये बृहतीं दुष्प्रघर्षां यस्या नेता केशवश्चार्जुनश्च
बृहतीं धार्तराष्ट्रस्य सेनां दृष्ट्वा समुद्यताम्। विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः
व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः। अभेद्यमिव संप्रेक्ष्य विवर्णोऽर्जुनमब्रवीत्