गन्तुकामा भर्तृपार्श्वं त्वया सह सुमध्यमा। गत्वाऽभिवाद्य राजनं यौवराज्यमवाप्स्यसि
स पिता तव राजेन्द्रस्तस्य त्वं वशगो भव। पितृपैतामहं राज्यमातिष्ठस्व स्वभावतः
तस्मिन्काले स्वराज्यस्थो मामनुस्मर पौरव
अभिवाद्य मुनेः पादौ पौरवो वाक्यमब्रवीत्। त्वं पिता मम विप्रर्षे त्वं माता त्वं गतिश्च मे
न चान्यं पितरं मन्ये त्वामृते तु महातपः। तव शुश्रूषणं पुण्यमिह लोके परत्र च
शकुन्तला भर्तृकामा स्वयं यातु यथेष्टतः। अहं सुश्रूषणपरः पादमूले वसामि वः
क्रीडां व्यालमृगैः सार्धं करिष्ये न पुरा यथा। त्वच्छासनपरो नित्यं स्वाध्यायं च करोम्यहम्
एवमुक्त्वा तु संश्लिष्य पादौ कण्वस्य तिष्ठतः। तस्य तद्वचनं श्रुत्वा प्ररुरोद शकुन्तला
स्नेहात्पितुश्च पुत्रस्य हर्षशोकसमन्विता। निशाम्य रुदतीमार्तां दौष्यन्तिर्वाक्यमब्रवीत्
श्रुत्वा भगवतो वाक्यं किं रोदिषि शकुन्तले। गन्तव्यं काल्य उत्थाय भर्तृप्रीतिस्ववास्ति चेत्
एकस्तु कुरुते पापं फलं भुङ्क्ते महाजनः। मया निवारितो नित्यं न करोषि वचो मम
निःसृतान्कुञ्जरान्नित्यं बाहुभ्यां संप्रमथ्य वै। वनं च लोडयन्नित्यं सिंहव्याघ्रगणैर्वृतम्
एवंविधानि चान्यानि कृत्वा वै पुरुनन्दन। रुषितो भगवांस्तात तस्मादावां विवासितौ
नाहं गच्छामि दुष्यन्तं नास्मि पुत्र हितैषिणी। पादमूले वसिष्यामि महर्षेर्भावितात्मनः
एवमुक्त्वा तु रुदती पपात मुनिपादयोः। एवं विलपतीं कण्वश्चानुनीय च हेतुभिः। पुनः प्रोवाच भगवानानृशंस्याद्धितं वचः
शकुन्तले शृणुष्वेदं हितं पथ्यं च भामिनि। पतिव्रताभावगुणान्हित्वा साध्यं न किंचन
प्रतिव्रतानां देवा वै तुष्टाः सर्वरप्रदाः। प्रसादं च करिष्यन्ति आपदो मोक्षयन्ति च
पतिप्रसादात्पुण्यं च प्राप्नुवन्ति न चाशुभम्। तस्माद्गत्वा तु राजानमाराधय शुचिस्मिते
शकुन्तलां तथोक्त्वा वै शाकुन्तलमथाब्रवीत्। दौहित्रो मम पौत्रस्त्वमिलिलस्य महात्मनः
शृणुष्व वचनं सत्यं प्रब्रवीमि तवानघ। मनसा भर्तृकामा वै वाग्भिरुक्त्वा पृथग्विधम्
गन्तुं नेच्छति कल्याणी तस्मात्तात वहस्व वै। शक्तस्त्वं प्रतिगन्तुं च मुनिभिः सह पौरव
इत्युक्त्वा सर्वदमनं कण्वः शिष्यानथाब्रवीत्। शकुन्तलामिमां शीग्रं सपुत्रामाश्रमादितः
भर्तुः प्रापयताभ्याशं सर्वलक्षणपूजिताम्। नारीणां चिरवासो हि बान्धवेषु न रोचते
कीर्तिचारित्रधर्म्नस्तस्मान्नयत मा चिरम्
धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु। काश्यपात्प्राप्य चानुज्ञां मुमुदे च शकुन्तला
कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत्। तथेत्युक्त्वा तु कण्वं च मातरं पौरवोऽब्रवीत्। किं चिरायसि मातस्त्वं गमिष्यामो नृपालयम्
एवमुक्त्वा तु तां देवीं दुष्यन्तस्य महात्मनः। अभिवाद्य मुनेः पादौ गन्तुमैच्छत्स पौरवः
शकुन्तला च पितरमभिवाद्य कृताञ्जलिः। प्रदक्षिणीकृत्य तदा पितरं वाक्यमब्रवीत्
अज्ञानान्मे पिता चेति दुरुक्तं वापि चानृतम्। अकार्यं वाप्यनिष्टं वा क्षन्तुमर्हति तद्भवान्
एवमुक्तो नतशिरा मुनिर्नोवाच किंचन। मनुष्यभावात्कण्वोऽपि मुनिरश्रूण्यवर्तयत्