यः स वात इवोद्भूतः समरे दुःसहः परैः। स नः पुरो योत्सयते वै भीमः प्रहरतां वरः
तेजांसि रिपुसैन्यानां मृद्गन्पुरुषसत्तमः। अग्नेऽग्रणीर्योत्स्यति नो युद्धोपायविचक्षणः
यं दृष्ट्वा कुरवः सर्वे दुर्योधनपुरोगमाः। निवर्तिष्यन्ति संत्रस्ताः सिंहं क्षुद्रमृगा यथा
तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयाः । भीमं प्रहरतां श्रेष्ठं देवाराजमिवामराः
न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम्। द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम्
भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् । चरन्वेगेन महता समुद्रमपि शोषयेत्
भीमसेनं तदा राजन्दर्शयस्व महाबलम् । केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान्
एते गच्छन्तु सामात्याः प्रकर्षन्तो जनाधिप । धृतराष्ट्रस्य दायादानिति बीभत्सुरब्रवीत्
ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि भारत । अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे
एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः। व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तथा
संप्रयातान्कुरून्दृष्ट्वा पाण्डंवानां महाचमूः। गङ्गेव पूर्णा स्तिमिता स्पन्दमाना व्यदृश्यत
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च वीर्यवान् । नकुलः सहदेवश्च धृष्टकेतुश्च पार्थिवः
विराटश्च ततः पश्चाद्राजाथाक्षौहिणीवृतः । भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती। द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः । सहितः पृतनाशूरैः रथमुख्यैः प्रभद्रकैः
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः। यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ
पृष्ठतोऽप्यर्जुनस्यासीद्युयुधानो महाबलः । चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमोजसौ
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः । बृहद्भीः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव
अक्षौहिण्याथ पाञ्चाल्यो यज्ञसेनो महामनाः । विराटमन्वयात्पश्चात्पाण्डवार्थं पराक्रमी
तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः । नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः
समुत्सार्य ततः पश्चाद्धृष्टद्युम्नो महारथः । भ्रातृभिः सहपुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम्
त्वदीयानां परेषां च रथेषु विपुलान्ध्वजान्। अभिभूयार्जुनस्यैको रथे तस्थौ महाकपिः
पदातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः। अनेकशतसाहस्रा भीमसेनस्य रक्षिणः
वारणा दशसाहस्राः प्रभिन्नकरटामुखाः । शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः
क्षरन्त इव जीमूता महार्हाः पद्मगन्धिनः। राजानमन्वयुः यश्चाज्जीमूता इव वार्षिकाः
भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम्। प्रचकर्ष महासैन्यं दुराधर्षो महामनाः
तमर्कमिव दुष्प्रेक्ष्यं तपन्तमिव वाहिनीम् । न शेकुः सर्वयोधास्ते प्रतिवीक्षितुमन्तिके
वज्रो नामैष स व्यूहो निर्भयः सर्वतोमुखः। चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना
यं प्रतिव्यूहय् तिष्ठन्ति पाण्डवास्तव वाहिनीम् । अजेयो मानुषे लोके पाण्डवैरभिरक्षितः
संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति। प्रववौ पृष्ठतो वायुर्निरभ्रे स्तनयित्नुमान्