केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम्। आस्थितः समरे राजन्मेघस्थ इव भानुमान्
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः । भगदत्तो ययौ राजा यथा वज्रधरस्तथा
गजस्कन्धगतावास्तां भगदत्तेन संमितौ । विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ
स रथानीकवान्व्यूहो हस्त्यङ्गो नृपशीर्षवान् । वाजिपक्षः पतत्युग्रः प्रहसन्सर्वतोमुखः
द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च। तथैवाचार्यपुत्रेण बाह्लीकेन कृपेम च
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः। अश्रूयत महाराज योधानां प्रयुयुत्सताम्
शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः । नोमिघोषै रथानां च दीर्यतीव वसुन्धरा
हयानां हेषमाणानां योधानां चैव गर्जताम्। क्षणेनैव नभो भूमिः शब्देनापूरितं तदा
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च । समकम्पन्त सैन्यानि परस्परसमागमे
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः । भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः
ध्वजा बहुविधाकारास्तावकानां नराधिप । काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः
स्वेषां चैव परेषां च समदृश्यन्त भारत। महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः। सन्नद्धाः समदृश्यन्त ज्वलनार्कसमप्रभाः
कुरुयोधवरा राजन्विचित्रायुधकार्मुकाः । उद्यतैरायुथैश्चित्रैस्तलबद्धाः पताकिनः
ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः । पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप । दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा
विविंशतिश्चित्रसेनो विकर्णश्च महारथः । सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः
रथा विंशतिसाहस्रास्तथैषामनुयायिनः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रैगर्ताः केकयास्तथा। सौवीराः कैतवाः प्राच्याः प्रतीच्येदीच्यवासिनः
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः । महता रथवंशेन ते ररक्षुः पितामहम्
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् । मागधो यत्र नृपतिस्तद्रथानीकमन्वयात्
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्। अभवन्वाहिनीमध्ये शतानामयुतानि षट्
पादाताश्चाग्रतो गच्छन्धनुश्चर्मासिपाणयः । अनेकशतसाहस्रा नखरप्रासयोधिनः
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत। अदृश्यत महाराज गङ्गेव यमुनान्तरा
अर्क्षांहिणीं दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः। कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् । कथं भीष्मं स कौन्तेयः प्रत्ययूहत सञ्जय
धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः। अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम्
महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः । संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह। अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः
एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव । एतच्छ्रुत्वा धर्मराजं प्रत्यभाषत पाण्डवः
एष व्यूहामि ते व्यूहं राजसत्तम दुर्जयम्। अचलं नाम वज्राख्यं विहितं वज्रपाणिना