श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः । तान्यनीकानि शोभन्ते गजैरथ पदातिभिः
भेरीपणवशब्दैश्च दुन्दुभीनां च निःस्वनैः । रथनेमिनिनादैश्च बभूवाकुलिता मही
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः । भ्राजमाना व्यराजन्त साग्नयः पर्वता इव
तालेन महता भीष्मः पञ्चतारेण केतुना । विमलादित्यसंकाशस्तस्थौ कुरुचमूपरि
ये त्वदीया महेष्वासा राजानो भरतर्षभ । अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते
स तु गोवासनः शैब्यः सहितः सर्वराजभिः । ययौ मातङ्गराजेन राजार्हेण पताकिना । पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः
अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतुना । श्रुतायुधश्चित्रसेनः पुरुमित्रो विविंशतिः
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः । एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः
स्यन्दनैर्वरवर्माणो भीष्मस्यासन्पुरोगमाः। तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान्
भ्राजमाना व्यरोचन्त जाम्बूनदमया ध्वजाः। जाम्बूनदमयी वेदी कमण्डलुविभूषिता
केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह । अनेकशतसाहस्रमनीकमनुकर्षतः
महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः । तस्य पौरवकालिङ्गकाम्भोजाः समुदक्षिणाः
क्षेमधन्वा च शल्यश्च तस्थुः प्रमुखतो रथाः। स्यन्दनेन महार्हेण केतुना वृषभेण च। प्रकर्षन्नेव सेनाग्नं मागधस्य कृपो ययौ
तदङ्गपतिनां गुप्तं कृपेण च मनस्विना । शारदाम्बुधरप्रख्यं प्राच्यानां सुमहद्बलम्
अनीकप्रमुखे तिष्ठन्वराहेण महायशाः। शुशुभे केतुमुख्येन राजतेन जयद्रथः
शतं रतसहस्राणां तस्यासन्वशवर्तिनः। अष्टौ नागसहस्राणि सादिनामयुतानि षट्
तत्सिन्धुपतिना राज्ञा पालितं ध्वजिनीमुखम्। अनन्तरथनागाश्वमशोभत महद्बलम्
षष्ट्या रथसहस्रैस्तु नागानामयुतेन च। पतिः सर्वकलिङ्गानां ययौ केतुमता सह
तस्य पर्वतसंकाशा व्यरोचन्त महागजाः । यन्त्रतोमरतूणीरैः पताकाभिः सुशोभिताः
शुशुभे केतुमुख्येन पावकेन कलिङ्गकः। श्वेतच्छत्रेण निष्केण चामरव्यजनेन च
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम्। आस्थितः समरे राजन्मेघस्थ इव भानुमान्
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः । भगदत्तो ययौ राजा यथा वज्रधरस्तथा
गजस्कन्धगतावास्तां भगदत्तेन संमितौ । विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ
स रथानीकवान्व्यूहो हस्त्यङ्गो नृपशीर्षवान् । वाजिपक्षः पतत्युग्रः प्रहसन्सर्वतोमुखः
द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च। तथैवाचार्यपुत्रेण बाह्लीकेन कृपेम च
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः। अश्रूयत महाराज योधानां प्रयुयुत्सताम्
शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः । नोमिघोषै रथानां च दीर्यतीव वसुन्धरा
हयानां हेषमाणानां योधानां चैव गर्जताम्। क्षणेनैव नभो भूमिः शब्देनापूरितं तदा
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च । समकम्पन्त सैन्यानि परस्परसमागमे
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः । भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः