काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः। अर्चिष्मन्तो व्यरोचन्त गजारोहाः सहस्रशः
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव। सन्नद्धास्ते प्रवीराश्च ददृशुर्युद्धकाङ्क्षिणः
उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः । ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः
शकुनिः सौबलः शल्य आवन्त्योऽथ जयद्रथः । विन्दानुविन्दौ कैकेयाः काम्भोजश्च सुदक्षिणः
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः । बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः
दशैते पुरुषव्याघ्राः शूराः परिघबाहवः । अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः
एते चान्ये च बहवो दुर्योधनवशानुगाः । राजानो राजपुत्राश्च नीतिमन्तो महारथाः
सन्नद्धाः समदृश्यन स्वेष्वनीकेष्ववस्थिताः । बद्धकृष्णाजिनाः सर्वे बलिनो युद्धशालिनः
हृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः। समर्था दश वाहिन्यः परिगृह्य व्यवस्थिताः
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः । अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् । अपश्याम महाराज भीष्मं चन्द्रमिवोदितम्
हेमतालध्वजं भीष्मं राजते स्यन्दते स्थितम् । श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः । सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः । जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा
धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः । एकादशैताः श्रीजुष्टा वाहिन्यस्तव पार्थिव
पाण्डवानां तथा सप्त महापुरुषपालिताः । उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ
युगान्ते समवेतौ द्वौ दृश्येते सागराविव । नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः । अनीकानां समेतानां कौरवाणां तथाविधः
यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत्। तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः
मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत। दीप्यमानाश्च संपेतुर्दिवि सप्त महग्रहाः
द्विधाभूत इवादित्य उदये प्रत्यदृश्यत। ज्वलन्त्या शिखया भूयो भानुमानुदितो रविः
ववाशिरे च दीप्तायां दिशि गोमायुवायसाः । लिप्समानाः शरीराणि मांसशोणितभोजनाः
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः । भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुरिन्दमौ । युयुधाते तवार्थाय यथा स समयः कृतः
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव । समानीय महीपालानिदं वचनमब्रवीत्
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्। गच्छध्वं तेन शक्रस्य ब्रह्मणः सहलोकताम्
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैः कृतः । संभावयध्वमात्मानमव्यग्रमनसो युधि
नाभागोऽथ ययातिश्च मान्धाता नहुषो नृगः । संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे । यदयोनिधनं याति सोऽस्य धर्मः सनातनः
एवमुक्ता महीपाला भीष्मेण भरतर्षभ। निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः । न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ
अपेतकर्णाः पुत्रास्ते राजनश्चैव तावकाः । निर्ययुः सिंहनादेन नादयन्तो दिशो दश