य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः। एनसा तेन नान्यं स उपाशङ्कितुमर्हति
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्। स वध्यः सर्वलोकस्य निन्दितानि समाचरन्
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया । अनुभूतः सहामात्यैः क्षान्तश्च सुचिरं वने
हयानां च गजानां च राज्ञां चामिततेजसाम्। प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः । दिष्टमेतत्पुरा नूनमिदमेव नराधिप
नमस्कृत्वा प्रवक्ष्यामि पाराशर्याय धीमते। यस्य प्रसादाद्दिव्यं तत्प्राप्तं ज्ञानमनुत्तमम्
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च । परचित्तस्य विज्ञानमतीतानागतस्य च
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः शुभा । अस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः
श्रृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् । भरतानामभूद्युद्धं यथा तद्रोमहर्षणम्
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः । दुर्योधनो महाराज दुःशासनमथाब्रवीत्
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः। अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय
अयं स मामभिप्राप्तो वर्षपूगाभिचिन्तितः । पाण्डवानां ससैन्यानां कुरूणां च समागमः
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात्। हन्युद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान्
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनाम् । श्रूयते स्त्री ह्यसौ पूर्वं तस्मादूर्त्यो रणे मम
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः। शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः । सर्वथाऽस्त्रेषु कुशलास्ते रक्षन्तु पितामहम्
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् । मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्। गोप्तारौ फाल्गुनं प्राप्तौ फाल्गुनोपि शिखण्डिनः
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः । यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु
ततो रजन्यां व्युष्टायां शब्दः समभवन्महान्। क्रोशतां भूमिपलानां युज्यतां युज्यतामिति
शङ्खदुन्दुभिघोषैश्च सिंहनादैश्च भारत। हयहेषितनादैश्च रथनेमिस्वनैस्तथा
गाजानां बृहतां चैव योधानां चापि गर्जताम्। क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः । सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः
राजेन्द्र तव पुत्राणां पाण्डवानां तथैव च। दुष्प्रधृष्याणि चास्त्राणि सशस्रकवचानि च
ततः प्रकाशे सैन्यानि समदृश्यन्त भारत। त्वदीयानां परेषां च शस्त्रवन्ति महान्ति च
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः। विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः
रथानीकान्यदृश्यन्त नगराणीव भूरिशः । अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत्
धनुर्भिर्ऋष्टिभिः खङ्गैर्गदाभिः शक्तितोमरैः । योधाः प्रहरणैः शुभ्रैस्तेष्वनीकेष्ववस्थिताः
गजाः पदाता रथिनस्तुरगाश्च विशांपते । व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः। स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः