तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात्। तेजोवीर्यबलैर्यूयाञ्शिखण्डी द्रुपदात्मजः
यः शूरं कृतिनं युद्धे सर्वशस्त्रविशारदम्। परमास्त्रविदं वीरं जघान भग्तर्षभम्
के वीरास्तममित्रघ्नमन्वयुः शस्त्रसंसदि । शंस मे तद्यथा चासीद्युद्भं भीष्मस्य पाण्डवैः
योषेव हतवीरा मे सेन्म पुत्रस्य सञ्जय । अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम
पौरुषं सर्वलोकस्य परं यस्मिन्महाहवे। परासक्ते च वस्तस्मिन्कथमासीन्मनस्तदा
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय। घातयित्वा महावीर्यं पितरं लोकधार्मिकम्
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः । भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः
अद्रिसारमयं नूनं हृदयं मम सञ्जय। यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते
यस्मिन्नस्त्राणि मेधा च नीतिश्च पुरुषर्षभे। अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि
न चास्त्रेण न शौर्येण तपसा मेधया न च। न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः । यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय
पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन् । आशंसेऽहं परं त्राणं भीष्माच्छान्तनुनन्दनात्
यदादित्यमिवापश्यत्पतितं भ्रुवि सञ्जय । दुर्योधनः शान्तनवं किं तदा प्रत्यपद्मत
नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् । शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम्
दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः । यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः
वयं वा राज्यमिच्छामो घातयित्वा महाव्रतम्। क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय । पराक्रमः पराशक्तिस्तत्तु तस्मिन्प्रतिष्ठितम्
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् । कथं शान्तनवं तातं पाण्डुपुत्रा न्यवारयन्
यथायुक्तान्यनीकानि कथं युद्धं महात्मभिः। कथं वा निहतो भीष्मः पिता सञ्जय मे परैः
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । दुःशासनश्च कितवो हते भीष्मे किमब्रुवन्
यच्छरीरैरुपास्तीर्णां नरवारणवाजिनाम् । शरशक्तिमहाखङ्गतोमराक्षां महाभयाम्। प्राविशन्कितवा मन्दाः सभां युद्धदुरासदाम्
प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः । के जीयन्ते जितास्तत्र कृतलक्ष्या निपातिताः । अन्ये भीष्माच्चान्तनवात्तन्ममाचक्ष्व सञ्जय
न हि मे शान्तिरस्तीह श्रुत्वा देवव्रतं हतम्। पितरं भीमकर्माणं भीष्ममाहवशोभिनम्
आर्तिं मे हृदये रूढां महतीं पुत्रहानिजाम्। त्वं हि मे सर्पिषेवाग्निमुद्दीपयसि सञ्जय
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम्। दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् । तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय
यद्वृत्तं तत्र संग्रामे मन्दस्याबुद्धिसंभवम् । अपनीतं सुनीतं यत्तन्ममाचक्ष्व सञ्जय
यत्कृतं तत्र संग्रामे भीष्मेण जयमिच्छता । तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः । क्रमेण येन यस्मिंश्च काले यच्च यथाऽभवत्
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि। न तु दुर्योधने दोषमिममासङ्क्तुमर्हसि