कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना। भीष्मो विनिहतो युद्धे देवैरपि दुरासदः
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् । अजितं जामदग्न्येन शक्रतुल्यपराक्रमम्
तं हतं समरे भीष्मं महारथकुलोदितम् । सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे
मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् । दुर्योधनसमादिष्टाः के वीराः पर्यवारयन्
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः । कच्चित्ते कुरवः सर्वे नाजहुः सञ्जयाच्युतम्
अश्मसारमयं नूनं हृदयं मुदृढं मम। यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते
यस्मिन्सत्यं च मेधा च नीतिश्च भरतर्षभे । अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि
मौर्वीघोषस्तनयुत्नुः पृषत्कपृषतो महान् । धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः
योऽभ्यवर्षत कौन्तेयान्सपाञ्चालान्ससृञ्जयान्। निघ्नन्परथान्वीरो दानवानिव वज्रभृत्
इष्वस्त्रसागरं घोरं बाणग्रहं दुरासदम् । कार्मुकोर्मिणमक्षय्यमद्वीपं चलमप्लवम्
गदासिमकरावासं हयावर्त्तं गजाकुलम् । पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम्
हयान्गजपदातींश्च रथांश्च तरसा बहून् । निमञ्जयन्तं समरे परवीरापहारिणम्
विदह्यमानं कोपेन तेजसा च परंतपम् । वेलेव मकरावासं के वीराः पर्यवारयन्
भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा । दुर्योधनहितार्थाय के तस्यास्य पुरोऽभवन्
के रक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः । पृष्ठतः के परान्वीरानपासेधन्यतव्रताः
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके। के रक्षन्नुत्तरं चक्रं वीरा वीरकस्य युध्यतः
वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान्। अग्नतोऽग्न्यमनीकेषु केऽभ्यरक्षन्दुरासदम्
पार्श्वतः केऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम्। समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते। दुर्जयानामनीकानि नाजयंस्तरसा युधि
सर्वलोकेश्वरस्येव परमस्य प्रजापतेः। कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः
यस्मिन्द्वीपे समाश्वस्य युध्यन्ते कुरवः परैः । तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय
यस्य वीर्यं समाश्रित्य मम पुत्रो बृहद्बलः । न पाण्डवानगणयत्कथं स निहतः परैः
यः पुरा विबुधैः सर्वैः सहाये युद्धदुर्मदः । काङ्क्षितो दानवान्ध्नद्भिः पिता मम महाव्रतः
यस्मिज्जाते महावीर्ये शान्तनुर्लोकविश्रुतः । शोकं दैन्यं च दुःस्वं च प्राजहात्स च तत्क्षणे
प्रोक्तं परायणं प्राज्ञं स्वधर्मनिरतं शुचिम्। वेदवेदाङ्गतत्वज्ञं कथं शंससि मे हतम्
सर्वास्त्रविनयोपेतं शान्तं दान्तं मनस्विनम्। हतं शान्तनवं श्रुत्वा मन्ये शेषं हतं बलम्
धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः । यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः । अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम्। हतं शंससि मे भीष्मं किं नु दुःखमतः परम्
असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः । जामदग्न्येन वीरेण परवीरनिघातिना। न हतो यो महाबुद्धिः स हतोऽद्य शिखण्डिना